SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ २४ ॥ Jain Education एवं शिष्या अपि प्रथमतो द्विधा, नवीना जीर्णाश्च तत्र ये बलभावे वर्तमाना अज्ञानिनः संप्रत्येवाऽवबोधयितुमारब्धास्ते नवीनाः । जीर्णा द्विविधा भाविता अभाविताश्च, तत्राऽभाविता ये केनाऽपि दर्शनेन न वासिताः. भाविता द्विविधाः, कुप्रावचनिक पार्श्वस्थादिभिः संविद्वैश्च । कुप्रावचनिकपार्श्वस्थादिभिरपि भाविता द्विधा, वाम्या अवाम्याश्च, संविग्नैरपि भाविता द्विधा, वाम्या अवाम्याश्च । तत्र ये नवीना ये जीर्णा अभाविता ये च कुप्रावचनिकादिभाविता अपि वाम्या ये च संविग्नभाविता अवाम्यास्ते सर्वेऽपि योग्याः शेषा अयोग्याः । अथवाऽन्यथा कुटदृष्टान्तभावना, इह चत्वारः कुटास्तद्यथा छिद्रकुटः कण्ठहीनकुटः खण्डकुटः संपूर्णकुटश्च । यस्याऽधोबुने छिद्रं स छिद्रकुटः यस्य पुनरोष्ठपरिमण्डलाऽभावः स कण्ठहीनकुटः यस्य पुनरेकपार्श्वे खण्डेन हीनता स खण्डकुटः एवं शिष्या अपि चत्वारो वेदितव्याः । तत्र यो व्याख्यानमण्डल्यामुपविष्टः सर्वमर्थमवबुध्यते व्याख्यानादुत्थितश्च न किमपि स्मरति स छिद्रकुटसमानः । यथा हि च्छिद्रकुटो यावत्तदवस्थ एव गाढमवनितलसंलग्नोऽवतिष्ठते तावन्न किमपि जलं ततः स्रवति, स्तोकं वा किञ्चिदिति । एवमेषोऽपि यावदाचार्यः पूर्वाऽपरानुसन्धानेन सूत्राऽर्थमुपदिशति तावदवबुध्यते, उत्थितश्चेव्याख्यानमण्डल्यास्तर्हि स्वयं | पूर्वाऽपरानुसन्धानविकलत्वान्न किमप्यनुस्मरति । यस्तु व्याख्यानमण्डल्यामुपविष्टोऽर्धमात्रं त्रिभागं चतुष्कं वा हीनं वा सूत्रार्थमवधारयति, यथाऽवधारितं च स्मरति स खण्डकुटसमः । यस्तु किञ्चिदूनं सूत्रार्थमवधारयति, पश्चादपि च तथैव स्मरति स कण्ठहीन कुटसमानः । यस्तु सकलमपि सूत्रार्थमाचार्योक्तं यथावदवधारयति पश्चादपि च तथैव स्मृतिपथमवतारयति स सम्पूर्णकुटसमानः । अत्र च्छिद्रकुटसमान एकान्तेनाऽयोग्यः, शेषा यथोत्तरं प्रधाना प्रधानतराः । सम्प्रति For Private & Personal Use Only 1000000 उपदेशर ० तरंग १२ ॥ २४ ॥ w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy