________________
m
नसः--आचार्यस्यैव तजाड्यं, यच्छिष्यो नाऽववुध्यते। गावोगोपालकेनेव, कुतीर्थेनावतारिताः ॥१॥ ततो पढावेउमारद्धो, न सक्कितो लज्जितो. एरिस्स न दायबं. कस्मादिति चेदुच्यते; इह यस्मान्न वन्ध्या मौः शिरःस्तनजघनपृष्ठपुच्छोदरादौ सस्नेहं | स्पृष्टा सती दुग्धप्रदायिनी भवति. तथा स्वाभाव्यादेव मेषोऽपि सम्यक्पाठ्यमानोऽपि मदमप्येक नाऽवगाहते, ततो न तस्य तावदपकारः, आस्तां तस्योपकाराऽभावः, प्रत्युताऽऽचार्ये सूत्रे वाऽपकीर्तिरुपजायते. यथा न सम्यकौशल्यमाचार्यस्य व्याख्यायाम, इदं वाऽध्ययनं न समीचीनं, कथमयमन्यथा नाऽवबुध्यते ? इति । अपिच तथाविधकुशिष्यपाठने तस्याऽवधानाऽभावाद उत्तरोत्तरसूत्रार्थाऽनवगाहतः सूरेः सकलावपि शास्त्रान्तरगतौ सूत्राथी भंशमाविशतोऽन्येषामपि च पटुश्रोतॄणामुत्तरोत्तरसूत्रार्थाऽवगाहनहानिप्रसङ्गः । उक्तं च-आयरिए सुत्तमि य, परिवाओ सुत्तअत्थपलिमंथो । अन्नेसिपि य हाणी, पुढाविन दुद्धया वंझा॥१॥ मुद्गशैलप्रतिपक्षभूते योग्यशिष्यविषये दृष्टान्तः कृष्णभूमिप्रदेशस्तत्र हि प्रभूतमपि निपतितं जलं तत्रैवान्तः परिणमति, न पुनः किञ्चिदपि ततो बहिरपगच्छति, एवं यो विनेयः सकलसूत्राऽर्थग्रहणधारणे समर्थः स कृष्णभूमिप्रदेशतुल्यः। स च योग्यस्ततस्तस्मै दातव्यमिदमध्ययनमिति। उक्तं च-वुढे वि दोणमेहे, न कण्हभूमाउ |लोट्टए उदयं । गहणधारणासमत्थे, इय देयमच्छित्तिकारिंमि ॥१॥ संप्रति कुटदृष्टान्तभावना, कुटा घटास्ते द्विविधास्तद्यथा-नवीना जीर्णाश्च, नवीना ये संप्रत्येव पाकतः समानीताः, जीर्णा द्विविधा भाविता अभाविताश्च, भाविता द्विविधाः, प्रशस्त द्रव्यभाविता अप्रशस्तद्रव्यभाविताश्च । तत्र ये कर्पूरागुरुचन्दनादिभिः प्रशस्तद्रव्यैर्भावितास्ते प्रशस्तद्रव्यभाविताः. प्रशस्तद्रव्यवासिता अपि द्विधा, वाम्या अवाम्याश्च. अभाविता नाम ये केनाऽपि द्रव्येण न वासिताः।
हनहानिप्रसङ्गः ।
ருருருருருருருருருடுடுடுடுடுடுடுடுடுடு
ते योग्यशिष्यविषये दृष्टायो विनेयः सकलसूत्रा
000000
Join Education
For Private
Personel Use Only
w.jainelibrary.org
-