________________
॥ अथ एकादशस्तरङ्गः॥ पुनरस्यैवाऽर्थस्य दृढीकरणायाऽऽहइक्कावि मेहवुट्टी, मणिमुत्ताविविहधन्नफलहेऊ । रयणागराइसु जहा, सुहगुरुवयणं तह जिएसु ॥ १ ॥ __ यथा एकाऽपि मेघवृष्टिः रत्नाकरे रोहणाचलादौ, आदिशब्दान्मुक्ताफलाऽऽकरे ताम्रपादौ विविधधान्यफलाकरादिषु च क्षेत्रविशेषेण विविधानामुत्तममध्यमाऽधमादीनां मणीनां मुक्ताफलानां धान्यानां फलानामुपलक्षणादन्येषामपि विविधौषध्यादीनां च निष्पत्तिहेतुः, तथा सद्गुरुवचनं जीवेषु उत्तमोत्तमादिषु स्वस्वयोग्यताद्यनुसारेण मणिमुक्ताफलादि समधर्मादिफलसिद्धिहेतुर्भवति। तथा चोक्तम्-आने निम्ने सुतीर्थे कचवरनिचये शूक्तिमध्येऽहिवके, औषध्यादौ विषद्रौ गुरुसरसि गिरौ पाण्डुभूकृष्णभूम्योः । इक्षुक्षेत्रे कषायद्गुमवनगहने मेघमुक्तं यथाऽम्नस्तद्वत्पात्रेषु दत्तं गुरुवदनभवं वाक्यमायाति पाकम् ॥१॥
ततो योग्यस्वरूपं सम्यगवधार्य योग्येष्वेवोपदेश्यमिति ।
॥ इति एकादशस्तरङ्गः समाप्त ॥
நபராக பருத்திருந்து
000000000
Jain Education
For Private Personel Use Only
M
ainelibrary.org