________________
@@
@
मुनिसुन्दर ॥ अथ दशमस्तरङ्गः॥
उपदेशर० सू० वि० उभयलोकसुखावहस्य सम्यग्धर्मस्योपदेशः सर्वत्र सुखावह एवेति तदारम्भे योग्यायोग्यस्वरूपनिरूपणं व्यर्थमित्या का
तरंत १० ॥२२॥ |शङ्कानिरासायाऽऽह
जिण्णाजिण्णजराइसु, होइ जहा इक्कमेव गोक्खीरं । गुणदोसप्यखतिकरं, सुहगुरुवयणं तह जिएसु॥१॥ | जीर्णाऽजीर्णज्वरयोः, आदिशब्दात्पित्तश्लेष्मादिषु च यथा एकमेव गोक्षीरं क्रमाद् गुणदोषोत्पत्तिकर भवति, जीर्णहावरे पित्तादौ च गुणकरम् , अभिनवज्वरे श्लेष्मादौ च दोषकरं, तथा गोदुग्धवत् माधुर्यादिगुणमुभयलोकहितावह का
सम्यग्धर्मतत्त्वैकप्ररूपकं सुगुरुवचनं जीवेषु योग्याऽयोग्येषु क्रमाद् गुणदोषोत्पत्तिकरं स्यात् । जीर्णमिथ्यात्वमोहनीयादिकर्मतया योग्येषु गुणकर, श्रीवर्धमानजिनवचनं श्रीइन्द्रभूत्यादिष्विव, श्रीथावच्चापुत्रसूरिवचनं सुदर्शनश्रेष्ठिशुकपरिव्राजकादिष्विव च । बहुलतत्कर्मतया योग्यतामनाप्तेषु च दोषोत्पत्तिकर, यथा श्रीपार्श्वजिनस्य हितोपदेशः पञ्चाग्निसाधनादिकष्ठाऽनुष्ठानपरे कमठतापसे । ततो योग्याऽयोग्यपरीक्षाफलवतीति ।
॥ इति श्रीतपागच्छे श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे दशमस्तरङ्गः समाप्तः॥
@@@@
9ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
@@@
॥ २२ ॥
@
@
Jain Education HD
For Private & Personel Use Only
wjainelibrary.org