SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ यन्ति । साधुभिर्नटो न विकलोदिभिरजीवयत्। स सूतो, वडा न जानास्यदलया, नाच चङ्गमितव्यं, छन्दोवा, गाटा भरि मृते लघुपुत्रं पास आह-अहमप्यवलगामि Hist-योत्कारः कर्तव्यो, मगग्रहणाय रहःस्था 00000000000000000000000 लागुञ्जायेतत्, पुनः पुनः कथने तेन वानरेण रुषा शिलायामास्फाल्य सा हतेति । एवं विधाः शिष्या जीवा वा सर्पसदृशा का इति । तथा यद्बजलौकसो यादृशं रक्तादिकं पिबन्ति तादृशमेवोदरगतं धारयन्ति, न पुनः परिणामान्तरं किमपि प्राप|यन्ति । एवमेके जीवाः श्रीगुरूपदेशादि यथाश्रुतं धारयन्ति, न पुनर्विशेषबोधजनकत्वाऽऽपादनेन परिणामान्तरं प्रापयन्ति । 'साधुभिर्नटो न विलोक्यते' इत्युक्ते नटीविलोकिमुन्यादिवत्, कुलपुत्रकवच । तथाहि-एकस्मिन् पुरे एका स्त्री भर्तरि मृते लघुपुत्रं परगृहकर्मादिभिरजीवयत्। स सुतो वर्धमानो मातरं पृच्छति, कथं मम पिता आजीविकां कृतवान् ? माताऽऽह-अवलगनेन, स आह-अहमप्यवलगामि, साऽऽह-न जानास्यवलगितुं, स आह-कथमवलग्यते ? साऽऽह-विनयं कुर्वीथाः, कीदृशो विनय ? इत्युक्ते पुनः साऽऽह-योत्कारः कर्तव्यो, नीचं चङ्कमितव्यं, छन्दोऽनुवर्तिना भाव्यमिति । ततः स नृपं कश्चिदवलगितुं नगरं प्रति प्रतस्थे। अन्तरालेऽनेन व्याधा मृगग्रहणाय रहःस्था दृष्टाः, गाढ स्वरेण योत्कारो भणितः. तं श्रुत्वा मृगास्त्रस्ताः, तैः कुट्टितः, सद्भावे कथिते मुक्तः, भणितं च यदेशं प्रेक्षेथास्तदा रहो नीचैर्गन्तव्यम् । ततस्तेन रजका दृष्टाः. ततः रहो शनैः शनैर्याति, रजकाणां च प्राग्वस्त्राणि हियन्ते, तैगूढपुरुषा नियुक्ताश्चौरप्रचारविलोकनाय. तैश्चौर इति कृत्वा बद्धः. सद्भावे कथिते मुक्तः, तैर्भणितं च एवंविधे शुद्धं भवत्वितिवाच्यम् । ततोऽग्रे बीजान्युप्यन्ते, तेन तत्र भणितं शुद्धं भवतु, तैरपि हतः. सदभावे कथिते मुक्तः । उक्तं च-ईदृशे बहु भवत्वित्युच्यते । अन्यत्र मृतकं नीयमानं दृष्ट्वा वदति, ईदृशं बहु भवतु. तत्राऽपि हतो मुक्तश्च । तथैवोकं च, ईदृशे उच्यते एवं विधस्यात्यन्तवियोगो भवतु । अन्यत्र विवाहे भणति-अत्यन्तं वियोगो भवतु । तत्रापि कुट्टितो मुक्तश्च ।। 066000000000000000000€ Jain Education International For Private & Personel Use Only ATMainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy