________________
सू०वि०
तरंग ९
PTTEE
मुनिसुन्दर
तथैवोक्तं च, ईदृशे भण्यते-नित्यमेवंविधानि प्रेक्षध्वं शाश्वतं च भवत्वेतत् । अन्यत्र निगडबद्धं दण्डिकं दृष्ट्वा भणति, उपदेशर नित्यमेवंविधानि प्रेक्षस्व शाश्वतं च भवत्वेतत् । तत्राऽपि हतो मुक्तश्च, तथैव भणितम्-एवंविधे लघुमोक्षो भवत्वित्युच्यते । अन्ये मित्रसंघाटकं कुर्वन्ति तत्र भणति-लघु मोक्षो भवतु, तत्रापि हतो मुक्तश्च । तथैव क्रमादेकं ग्रामाऽधिपतिपुत्रमाश्रितस्तं सेवते । अन्यदा दुर्भिक्षे तस्य गृहे रब्बा सिद्धा । ग्रामाधिपतिभार्यया भणितः सः, याहि सभाजनमध्यात् शब्दायस्व स्वामिनं, यतो रब्बा शीतलाऽयोग्या भवति। तेन गत्वा तथैव गाढस्वरं भणितं, स लजितः, गृहाऽऽग-| तेन तेन ताडितो भणितश्च, ईदृशे कार्ये शनैः कर्णे कथ्यते । अन्यदा गृहं प्रदीप्तं, ततो गत्वा कर्णे शनैः कथयति यावत् । तावद् गृहं सर्व प्रज्वलितं ताडितो भणितश्च-एवंविधे आत्मनैव नीरमादौ कृत्वा गोभक्ताद्यपि क्षिप्यते यथाऽग्निर्विध्यायति । अन्यदा वेणी धूपयतस्तस्य शिरसि गोभक्तं क्षिप्तमित्यादि । यथैष कुलपुत्रो यथाश्रुतमेवाऽधारयद्वचनं, न तु तदा भिप्रायविषयविशेषाद्यवबुद्धवान् । एवं श्रुतमात्रग्राहिणो वचनविषयतात्पर्याद्यनभिज्ञा जीवा जलौकःसदृशा इति । यथा च सा जलोकाः शूलाप्रयोगादिना पीतं रुधिरं निश्चोत्यमाना परिणामे दुःखिनी भवति । तथा तेऽपि इहापि दुःखिनः स्युः। पदे पदे दृष्टान्तीकृतकुलपुत्रकवदेव परत्राऽपि चेति । वन्ध्येति-यथा वन्ध्याया गोर्दुग्धाद्यर्थिना बहुविधसरसघृतादिकचारिधान्यकार्पसिकादि बह्वपि दीयमानं निष्फलं दुग्धाद्यकारित्वात् । तथा केषाश्चिज्जीवानां बहुविधा
॥ २१॥ अपि सुगुरूपदेशा निष्फलीभवन्ति । ब्रह्मदत्तचक्र्यादीनामिव । तदुक्तम्-उवएससहस्सेहि वि, बोहजतो न बुज्झई ol कोइ । जह बंभदत्तराया, उदाइनिवमारओ चेव ॥१॥ तथाऽवन्ध्याया धेनोः पुनर्यथा यत्किश्चित्तृणाद्यपि दत्तं
En
T TERS
8
Jain Education insan
For Private & Personel Use Only
www.jainelibrary.org