________________
00000000000000000000000
आनन्दादिवीरश्रावकदशवत् । श्रीमदुदायनदशार्णभद्रशुकपरिव्राजकाऽक्षोभितसुदर्शनश्रेष्ठिकुमारपालभूपालादिवद् वा । आदिशब्दादू दृष्टान्तचतुष्टयेऽपि प्रत्येकं योजितादशुचितमपळेकरुचिग्रामशूकर, १ स्नानाद्यरुचिबोकुट २ निर्मलपति, लजलोभयसमानरुचिमहिष ३ सरोनद्यकपरिशीलनरूचिचक्रवाकादि ४ दृष्टान्ता अपि ज्ञेयाः। एवं दृष्टान्तोपदेशमधिगम्य शिवाणिभिरुत्तरोत्तरदृष्टान्तसदृशैः सर्वशक्त्या भाव्यं भव्यजीवैर्येन शिवसुखसम्पदः करतललुठिता इव सुप्रापा भवतीति ।
इत्युत्तरोत्तरनिदर्शनसन्निभा भो, भव्योत्तमा भवत सद्गुरुवाक्तटाके । येनाऽऽप्यसंसृतिसुखानि जयश्रियाऽष्ट-कर्मद्विषा विलसथाऽक्षयमोक्षलक्ष्म्या॥१॥
॥ इति तपागच्छाधिराजश्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे अष्टमस्तरङ्गः समाप्तः॥
10000000000000000000000
Jain Education
For Private
Personel Use Only
CONainelibrary.org