SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १९ ॥ Jain Education Int उपदेशर० तरंग ८ स्वजन लोकापवादादिभियाऽधिकं संपूर्णमुपदेशं न शृण्वन्ति किन्त्वन्तरा सरसकथाश्लोकादि कियच्छृण्वन्ति, अवधारयन्ति च कियतीं बोधितृप्तिमाशुवन्त्यनुतिष्ठन्ति च । ते च धर्माभ्यासवशाद्विशिष्य दुर्गतिं नानुवन्ति । तां प्राप्ता अपि पुनर्वोधिं लभन्ते, गोभूतिवसुभूतिविप्रद्वयवत् । इभत्ति - यथा गजस्तृपातापाद्याक्रान्तस्तादृशे सरसि प्राप्तो यथेष्टं जलपानेनाशिततां तृप्तिं करोति, स्वस्य स्नानजलक्रीडादिना मलतापापहारं च परं स्नात्वा निर्गतो धूल्याऽऽत्मानं खरण्टयति. पुनः पुनः स्नानखरण्टनादि कुरुते । तथा केचिज्जीवा मध्यमभावा गुरूपदेशं सम्यक्कृण्वन्ति, अवधारयन्ति अनुतिष्ठन्ति साह्रादं तृप्यन्ति, मिथ्यात्वविषयतृष्णाकषायादितापमलाऽपहारेण शुध्यन्ति च । परमऽदृढचित्ततया पुनस्ताह - क्सामय्यां कुतीर्थिकवचनश्रवणादिना तदनुष्ठानाऽनुरागादिना तत्तपोविद्याचमत्कारादिना विषयतृष्णावह्वारम्भादिना | आत्मानं धूल्येव मलिनयन्ति पुनर्गुरूपदेशस्नानोक्तरूपखरण्टनादि च कुर्वाणा मनुष्यगतिहीन सुरगत्यादिप्रायोग्यं पुण्यकर्मोपार्जयन्ति, पूर्वगाथाप्रथितश्यामलवणिग्वत् । केचित्तु बहुक्षालनाऽल्पखरण्टनादि कुर्वाणा उत्तमसुरायुरपि बध्नन्ति, आसन्न सिद्धिकाश्च भवन्ति, हंसत्ति - हंसो यथा तादृक्सरः संप्राप्य तत्रैव वसन् रतिं कुरुते, निर्मलजलपानस्नानमृणालभक्षणादिना सरस्येव तत्परिसरे वा तिष्ठन् शैत्यपावित्र्यसुखान्यनुभवन् रजोमलाऽपावित्र्यतापान्न विन्दति । तथा | केचिज्जीवाः सद्गुरूपदेशं श्रुत्वा तत्रैव रतिं कुर्वाणा मनोवाक्कायैस्तदनुध्यानतदनुगत सूत्रार्थोद्धार भणनतदनुष्ठित्यादिभि6) स्तदेव परिशीलयन्तो मिथ्यावचनश्रवणोद्भवधर्मास्थैर्यादिमालिन्यबह्वारम्भादिपापभवक्लेशादितापान्नानुभवन्ति, उत्त- ० ॥ १९ ॥ रोत्तरज्ञान दर्शन देश विरतिसर्वविरत्यनुष्ठानादिभिरासन्न सिद्धिका एव भवन्ति, तस्मिन्नेव भवे द्वितीये वा भवे सिध्यन्ति For Private & Personal Use Only lainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy