________________
उपदेशर० तरंग ८
मुनिसुन्दर
॥ अथाष्टमतरङ्गः॥ सू० वि०
पुनरपि भङ्ग यन्तरेण योग्याऽयोग्यविचारमाह॥१८॥ शिजह वरजलभरे असरे, वायसे सोणे हर्सेमाईणं। चायलिहणासियरेइ, सुगुरुवएसे तह जिआणं ॥१॥
व्याख्या-यथा वरं निर्मलं जलं तेन भृते सरसि वायसश्वानइभहसौदीनां-मकारः प्राकृतत्वादलाक्षणिकः, प्राप्तानामितिगम्यं, त्यांगो लेहनाशिततारतिश्च क्रमादू भवन्ति, विभक्तिलोपःप्राकृतत्वात, तथा सुगुरूपदेशेऽपि अधमादीनां जीवानां त्यागादयो भवन्तीति पिण्डार्थः, अथैतद् भाव्यते यथा निर्मलजलपूर्णे महासरसि वायसस्तृषातुरोऽपि प्राप्तो न जलं पिबति, न च वपुर्गतमलतापादिव्यपगमार्थ स्नाति, किं तु तत्त्यक्त्वा जनस्नानादिमलिनकियजलभृतेषु क्षुद्रबिलादिषु आविलं जलं स्वल्पं पिबति, नारीशिरःस्थविमलजलभृतघटादिषु वाऽशुचिचञ्चक्षेपेण जलं विनाशयति, न तु स्वयं तृप्यति, तथा केचिदधमा जीवा अभिगृहीततीव्रमिथ्यात्ववासनावशाद् बहुलकर्मतादिहेतुकप्रमादादिवशाद्वा श्रीजिनधर्म द्विषन्तो दयादिगुणविशुद्धश्रीसर्वज्ञागमजलनिभृते महासरस्तुल्ये सुगुरूपदेशेऽपि हस्तिना मारयेन्न तु जिनभवनं प्रविशेदित्यादि | कुशास्त्राण्युच्चारयन्तोऽभिलाषमकुर्वाणास्त्यजन्ति, लोहखुररौहिणेयपूर्वावस्थादिवत्. कदाचिच्च परेभ्यः श्रीगुरूक्तकथाश्लोकवचनादिसारस्यप्रवादं श्रुत्वा गोष्पदादितुल्येभ्यस्तं श्रुतपूर्विभ्यः शृण्वन्ति, काका इव जलघटं श्रोतृहृदयबोधमपि मिथ्याकुतर्कादिभिर्वितर्कयन्ति विनाशयन्त्यपि. अथवा गोष्पदाभपार्श्वस्थादिषु रतिं कुर्वते, गच्छनिर्गतेषु नारीशिरः
0000000000000000000000
00000000000000
Jain Education
H
a
l
For Private & Personel Use Only
Amr.jainelibrary.org