________________
00000000000000000000004
नृपादिवत्, ये पुनः कुगु,दिसंगत्या सम्यग्दर्शनचारित्राणि वमन्ति, ते शुभधर्मवासं प्रतीत्य वाम्याः. बौद्धसंगत्यैकविंशतिकृत्वोऽहद्धर्मत्यागिश्रीहरिभद्रसूरिशिष्यपश्चात्तदुपज्ञललितविस्तराप्रतिबुद्धश्रीसिद्धवत्. ये तु कुगुर्वादिकुसंगतावपि सम्यग्दर्शनचारित्रादि न वमन्ति ते शुभधर्मवासं प्रतीत्यावाम्याः, श्रीथावच्चापुत्रगुरुप्रतिबोधितशुकपरिव्राजकशिष्यसुदर्शनश्रेष्ठिवत् , तेषु ये शुभधर्मवासं प्रतीत्य वाम्याः अशुभधर्मवासं प्रतीत्याऽवाम्याश्च, ते उभयेऽयोग्याः, शेषास्त्रयो योग्या इति ।
इति निबुध्य घटोपमया स्फुटं, तनुभृतो भुवि पञ्चविधान् बुधाः । सुकृतवासमवाम्यतयोत्तम, श्रयत दुर्जयकर्मजयश्रिये ॥ १ ॥
॥ इति सप्तमस्तरङ्गः समाप्तः॥
0000000000000000000000
Join Education
For Private
Personel Use Only
jainelibrary.org