________________
0000000000000000000000
दास्ये, प्राप्तो नगरं, सार्थवाहेन निजगृहे तस्य मठः कारितः, ततः स शिरो मुण्डयित्वा काषायिकवस्त्राणि परिधत्ते, लोके ख्यातो जातः, शनैः शनैः सार्थवाहस्यापि पिण्ड नेच्छति, अन्यस्य गृहे न याति, ततः पारणदिने तस्य लोकः स्वयं भक्तमानयति, एकस्य प्रतीच्छति, ततो लोको न वेत्ति, कस्य प्रतीष्टमिति. ततस्तज्ज्ञातुं भेरी कृता, यस्यात्तं तत्ताडितायां भेर्या शेषावलन्ते, एवं याति काले राजगृहे नगरे श्रीवर्धमानः समवसृतः. साधवो भिक्षार्थ संदेशयन्तो भगवता भणिताः, मुहूर्त तिष्ठत, यतोऽनेषणाऽधुना, तस्मिन् भुक्ते भणिताः,गच्छत, गौतमश्चोक्तो, मम वचनेन तं भण-भो अनेकपिण्डिक ! एकपिण्डिकस्त्वां द्रष्टुमिच्छति, ततो गौतमेन तथा भणितो रुष्टः, यूयमनेकानि पिण्डशतानि आहारयत, अहमेकं पिण्डं भुञ्ज, ततोऽहमेवैकपिण्डिकः. मुहूर्तान्तरादुपशान्तश्चिन्तयति, नैते मृषाभाषिणः, कथं नु भवेदेवं? हुं ज्ञातोऽर्थः, भवाम्यनेक पिण्डिको यतो यद्दिने मम पारणक, तद्दिनमनेकानि पिण्डशतानि क्रियन्ते, एते त्वकृतमकारितं भुञ्जते, तत्सत्यमुक्तमिति
चिन्तयन् जाति स्मृत्वा प्रत्येकबुद्धो जातः, अध्ययनं भाषित्वा सिद्ध इति । एते च तद्भवसिद्धिका एवेति । एतेषु षड्भेXदेषु जन्तुषु प्रथमे द्वये त्याज्याः, मरुस्थलादिसदृशेषु चतुर्यु चोपदेष्टव्यमिति ।
षोडेति विदित्वा, नरभिदोऽग्रिमाग्रिमसमैर्बुधैर्भाव्यम् । भवरिपुजयश्रिया स्यादासन्नमव्ययसुखं यत् ॥१॥
॥ इति पञ्चमषष्ठतरङ्गी समाप्ती॥
000000000000000000000000
-
JainEducation
For Private
Personal use only