________________
®®®ल
॥ अथ पञ्चमषष्ठतरङ्गौ ॥ योग्याऽयोग्यानेव दृष्टान्तैराहगिरिसरपणालमरुथल-कसिणावणिजलहि सुत्तिमणिखाणीधम्मोवएसवासे, फलजणणे जीवदिटुंता॥
धर्मोपदेशवृष्टौ फलजनने च, जीवदिहतत्ति, जीवानां दृष्टान्ता गिरिशिरःप्रभृतयः षड् भवन्ति, षष्ठीलोपः प्राकृतत्वात् , यथाहि-जलधरवर्षणे सति स्थानविशेषेण फलजननाऽजननादिविषये षट्प्रकारता दृश्यते, तथा गुरूपदेशेऽपि योग्याऽयोग्यजीवरूपस्थानविशेषेण प्रतिबोधादिरूपफललाभादि षोढा विभाव्यते, एतदेव प्रत्येक भावयति, गिरिशिरः पर्वतशीर्ष शिलादिरूपं, तत्र यथा जलदजलं स्वल्पं बहु बहुतरं वा पतितं सत् सद्यो लुठित्वा याति, न तु क्षणमपि मिलति, दूरे|ऽन्तर्भेदः। तथा केषुचिजीवेषु धर्मोपदेशोऽप्येवमेव प्रमादादिनाऽवज्ञोपयोगान्तरव्यग्रचित्तत्वादिना चाऽनवधारणेनैव निष्फल एव स्यात्, कुतः पुनः परिणतिः, श्रवणं तु बहिर्वृत्त्या पारतन्त्र्यादिनाऽभिमानादिना वा स्याद्, बटुकवत्, तथाहि-क्वचित् सन्निवेशे द्विजन्मा बटुं धर्म श्रावयति, स तु तत्कण्ठघण्टिकां चलन्तीं विस्मित इव प्रेक्षते, कियदुपदिश्योवाच द्विजः-ज्ञातं तत्त्वमिति, बटुरुवाच, ज्ञातं,द्विजः-कथं? बटुः-तवैषा कण्ठघण्टिकाऽनवरतं चलन्तीति. द्विजः-रे मूर्ख किं तवैतया, किंचिद्वस्तु निरूप्यते, बटुः-एवं करिष्यामीति. द्विजः पुनः कियदुपदिश्याऽप्राक्षीत्, निरूपितं किञ्चित् ? बटुः-निरूपित, द्विजः-कथं ? बटुः-यावत् त्वया किंचिद् भणितं तावदितो दरात् कीटिकाः सप्तोत्तराणि सप्तशतानि
000000000000000000
रहेछन्
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org
HINDI