________________
नीरषटमर्पयित्वा च्छगणिकां गृहीत्वा प्रवृत्तः क्षेत्र प्रति, गत्वा च तत्र क्षिप्ता कौटुम्बिकेन च्छगणिका, अपरेण क्षिप्तो घटो 15ा भन्ना, रुष्टः कौटुम्बिकः, प्रतिरुष्टः परोऽपि, ताडितः कौटुम्बिकेन, प्रतिताडितः सोऽप्यनेन, लग्नं युद्धं, कुट्टितः कौटुम्बिकः|| वाकयमपि नष्टः, नश्यतश्च वृक्षादौ लग्नं परिधानवस्त्रम्, अन्येनाऽपि पृष्टत आगच्छता स्वकीयं च्छोटयित्वा मुक्तं, आप्तो ग्राम
द्वारं कौटुम्बिका, नग्नत्वात् परिधानार्थ गृहीतं तेनोदकार्थ गच्छन्त्याः पल्या उत्तरीयांशुकम्, परेण परिधानांशुकमपि, उभयविलक्षः प्रविष्टो गृहकोणके कौटुम्बिकोऽपरोऽपि तदन्यस्मिन् , यावन्मिलितो लोकः, किमेतदिति कौटुम्बिको दर्शयति का पामरं, सोऽपि तमेवेत्यादि, ततः स कथमपि प्रज्ञापितो लोकेनेति. एवं कर्तव्याऽकर्तव्याद्युपदेशेऽपि तद्विषयाद्यनभिज्ञः पामरसमोऽनुपदेश्यः. तदुक्तं यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किम्।लोचनाभ्यां विहीनस्य, प्रदीपः किं करिष्यति! ॥१॥इति।तथा श्रुतमेव गृह्णातीति श्रुतमात्रग्राही, न तन्त्रयुक्तिजस्तापसवत्, तथाहि-कचिद्ग्रामे कश्चिद् द्विजःपापभीरुस्तापसत्वं प्रपेदे, श्रुतं चानेन "कृपया धर्म" इति. ग्लानोऽभूत् कोऽप्यन्यदा तापसः, उत्पन्नस्तस्य संनिपातः, वारितं शीतं वारि, वापि गतेष्वन्यतापसेषु रोगिणा नव्यतापसस्य पार्श्वे शीतं वारि प्रार्थितं, कृपया धर्म इति कृत्वा दत्तं तेन, प्राप्तोऽतिक्लेशं रोगी, आक्रुष्टश्च नव्यतापसोऽपरैः, रे मूर्ख! हतोऽसौ त्वया, किं वा न संभाव्यमज्ञानिन इति । चिन्तितं च तेनाऽज्ञान्यहं, तत् ज्ञानमधीये, श्रुतं च 'तपसा ज्ञानावाप्तिः' यतः-'तपसैव प्रपश्यन्ति, त्रैलोक्यं सचराचरम्' इति तत्स्वाधीनं करोमीत्यनाख्याय कस्याऽपि गतो गिरिगुफां, प्रारब्धं तपः फलादेरपि त्यागेन, अतिगतेषु च कियत्स्वपि दिनेषु पीडितः क्षुधा, कण्ठगतप्राणश्च प्रेक्षितस्तद्गवेषणपरैस्तापसैः, उक्तं च, 'न खल्वित्थं तपः क्रियते, समाधान हि
00000000000000000
0000000000000000000
कृष्टश्च नरागिणा नव्यता ग्लानोऽभूत तापसवत, लाचनाभ्यां विहान
उ'३
Jain Education t
otal
For Private & Personel Use Only
Trainelibrary.org