SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ - 0000000000000000000000000 ॥ अथ चतुर्थस्तरङ्गः ॥ अथ प्राच्यामेव गाथां पञ्चममतिशयं सदृष्टान्तं प्रक्षिप्योपदेशतयाचष्टे दल १ नेह २ गविल ३ वेगर ४ रुप्पय ५ जुअमोअगा जहिट्ठफला। सम्मत्त १ भाव २ विहु ३ चिअ ४ अइसय ५ जुत्ता तहा धम्मा ४॥१॥ व्याख्या-दलनादिभिश्चतुर्भिः प्राग्व्यावर्णितस्वरूपैः पञ्चमेन रौप्यकेण च उपलक्षणात् सौवर्णादिभिश्च युता मोदका यथेष्टफला भवन्ति, इष्टमभीष्टं ग्राहकस्य फलप्रकृष्टाहादादिरूपं येभ्यस्ते इति; तथा सम्यक्त्वादिभिश्चतुर्भिः प्रागुक्तस्वरूपैः पञ्चमेनातिशयेन च युक्ता धर्मा इष्टफलाः स्युः। इष्टं फलं चातिशयसुखर्द्धिमहैश्वर्यादिचक्रित्वेन्द्रत्वतीर्थकरत्वाद्यनुगतं येभ्यस्ते इति । तत्रातिशयोऽवधिज्ञानादिः, यथा श्रीआनन्दकामदेवादिश्राद्धानां शीलवत्यादिश्राविकाणां च । यद्वाऽतिशय उत्कर्षः शीलादिगुणविषयः, यथा सुदर्शनश्रेष्ठिप्रभृतिश्राद्धानां सीताद्रौपद्यादिश्राविकाणां च शीलातिशयः, श्रीश्रेणिकनृपादीनां सुलसादिश्राविकाणां च सम्यक्त्वातिशयः, प्रभावतीराश्यादीनां देवभत्त्यतिशयः, सा० पृथ्वीधर सा० जगसीप्रभृतीनां श्रीगुरुभक्त्यतिशयः, दण्डवीर्यनृपादीनां साधर्मिकभक्त्यतिशयः, सा० जगडूप्रभृतीनां दानातिशयः, नागकेतुश्रेष्ठिप्रभृतीनां तपोऽतिशयः, अच्चङ्कारीभट्टाप्रभृतीनां क्षमातिशयः, जीर्णश्रेष्ठ्यादीनां भावातिशयः, श्रीकुमारपालभूपालस्य देवभक्तिगुरुभक्तिश्रीसम्यक्त्वाणुव्रतादिसर्वधर्मभेदविषयोऽतिशयः, श्रीवस्तुपालतेजःपालयोरनुपमायाश्च विवेकातिशयश्चेत्यादि ।। Jain Education a l For Private Personal Use Only Jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy