SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ - 0000000000000000000000000 ॥ अथ चतुर्थस्तरङ्गः ॥ अथ प्राच्यामेव गाथां पञ्चममतिशयं सदृष्टान्तं प्रक्षिप्योपदेशतयाचष्टे दल १ नेह २ गविल ३ वेगर ४ रुप्पय ५ जुअमोअगा जहिट्ठफला। सम्मत्त १ भाव २ विहु ३ चिअ ४ अइसय ५ जुत्ता तहा धम्मा ४॥१॥ व्याख्या-दलनादिभिश्चतुर्भिः प्राग्व्यावर्णितस्वरूपैः पञ्चमेन रौप्यकेण च उपलक्षणात् सौवर्णादिभिश्च युता मोदका यथेष्टफला भवन्ति, इष्टमभीष्टं ग्राहकस्य फलप्रकृष्टाहादादिरूपं येभ्यस्ते इति; तथा सम्यक्त्वादिभिश्चतुर्भिः प्रागुक्तस्वरूपैः पञ्चमेनातिशयेन च युक्ता धर्मा इष्टफलाः स्युः। इष्टं फलं चातिशयसुखर्द्धिमहैश्वर्यादिचक्रित्वेन्द्रत्वतीर्थकरत्वाद्यनुगतं येभ्यस्ते इति । तत्रातिशयोऽवधिज्ञानादिः, यथा श्रीआनन्दकामदेवादिश्राद्धानां शीलवत्यादिश्राविकाणां च । यद्वाऽतिशय उत्कर्षः शीलादिगुणविषयः, यथा सुदर्शनश्रेष्ठिप्रभृतिश्राद्धानां सीताद्रौपद्यादिश्राविकाणां च शीलातिशयः, श्रीश्रेणिकनृपादीनां सुलसादिश्राविकाणां च सम्यक्त्वातिशयः, प्रभावतीराश्यादीनां देवभत्त्यतिशयः, सा० पृथ्वीधर सा० जगसीप्रभृतीनां श्रीगुरुभक्त्यतिशयः, दण्डवीर्यनृपादीनां साधर्मिकभक्त्यतिशयः, सा० जगडूप्रभृतीनां दानातिशयः, नागकेतुश्रेष्ठिप्रभृतीनां तपोऽतिशयः, अच्चङ्कारीभट्टाप्रभृतीनां क्षमातिशयः, जीर्णश्रेष्ठ्यादीनां भावातिशयः, श्रीकुमारपालभूपालस्य देवभक्तिगुरुभक्तिश्रीसम्यक्त्वाणुव्रतादिसर्वधर्मभेदविषयोऽतिशयः, श्रीवस्तुपालतेजःपालयोरनुपमायाश्च विवेकातिशयश्चेत्यादि ।। Jain Education a l For Private Personal Use Only Jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy