________________
मुनिसुन्दर सू० वि०
॥ २२०॥
000000000000000000000000
तत्रानुपमादेव्या विवेकातिशयस्य किञ्चिल्लेशमात्रं प्रकाश्यते-श्रीअर्बुदाचले श्रीलूणिगवसती गर्भगृहे निष्पन्ने श्रीनेमि- उपदेशर० बिम्बे स्थापिते च श्रीतेजःपालमन्त्री अनुपमया सहानल्पपरिच्छदोऽर्बुदगिरि प्राप्तः प्रासादं निष्पन्नप्रायं ददर्श तुतोष ।
तरंग ४ स्नात्वा सद्वस्त्रप्रावरणः सपत्नीको मन्त्री नेमि पूजयति स्म । अथ ध्यानेनोर्ध्वस्त स्थौ चिरं, क्षणार्द्धनानुपमा पति तथास्थं मुक्त्वा प्रासादनिष्पत्तिकुतूहलेन बहिरागात् । तत्र सूत्रधारः शोभनदेवो मण्डपचतुःस्तम्भीमूर्धयितुमुपक्रमते । मन्त्रिण्योतम्-सूत्रधार! मम पश्यन्त्याश्चिरं बभूव, अद्यापि स्तम्भा नोत्तम्यन्ते । शोभनदेवेनोक्तम्-स्वामिनि ! शीतं स्फीतं प्रातर्घटनं विषम, मध्याह्नोद्देशे तु गृहाय गम्यते स्नायते भुज्यते एवं विलम्बः स्यात्, अथवा विलम्बात् किं भयम् ?, श्रीमन्त्रिपादाश्चिरं राज्यमुपभुञ्जानाः सन्तीह तावत् । ततोऽनुपमया जगदे-सूत्रधार ! चाटुमात्रमेतत् , कोऽपि क्षणः कीदृग् भवेत् को वेत्ति ? । सूत्रधारो मौनेनातिष्ठत् । पत्नीवचनमाकार्य सचिवेन्द्रो बहिनिःसृत्य सूत्रधारमवोचत्अनुपमा किं वावदीति ? ।. सूत्रधारो व्याहार्षीत् यद्देवेनावधारितम् । मन्त्री दयितामाह-किं त्वयोक्तम् ?, अनु-|| पमाऽऽह-देव! वदन्त्यस्मि-कालस्य को विश्वासः?, कापि कालवेला कीदृशी भवति !, न सर्वदा तेजः पुरुषाणाम् । तथा श्रियो वा स्वस्य वा नाशो, येनावश्यं विनश्यते । श्रीसम्बन्धे बुधाः स्थैर्य-बुद्धिं बध्नन्ति तत्र किम् ? ॥१॥ वृद्धानाराधयन्तोऽपि, तर्पयन्तोऽपि पूर्वजान् । पश्यन्तोऽपि गतश्रीकानहो ! मुह्यन्ति जन्तवः ॥२॥ भूपधूपल्लवप्रान्तनिरालम्बावलम्बिनीम् । स्थेयसी बत! मन्यन्ते, सेवकाः स्वामपि श्रियम् ॥ ३॥ इतो विपदितो मृत्यु-रितो व्याधिरितो जरा । जन्तवो हन्त पीड्यन्ते, चतुर्भिरपि सन्ततम् ॥ ४ ॥ एतत्तत्त्ववचः श्रुत्वा मन्त्रिवरः प्राह-अयि कमलदलदीर्घ
1000000000000000000000000
॥२२०॥
Jain Educationa
l
For Private Personal use only
1
14 ainelibrary.org