________________
00000000000000000
वहिअस्स धम्मं, माहु कहि जाहि सुडवि पिअस्स विच्छायं बेइ, मुहविज्झायरिंग धर्मतस्स ॥१॥ अभ्यधिष्महि च" अप्युल्लसल्लब्धिनिधिः प्रबोधयद्, बहुपदेशैरपि कोऽनवस्थितम् । भेत्तुं तडिद्वह्निमलं न पुष्करावर्तोऽपि धाराशतल क्षकोटिभिः॥१॥" प्रमत्तो विषयकषायविकथानिद्रादिप्रमादप्लावितचेतनः, स च धर्म न बुध्यते, प्राग्भवभ्रातृचित्रमहर्षिप्रतिबोध्यमानब्रह्मदत्तचक्र्यादिवत्. तदुक्तं-चित्ते प्रमादनिभृते, धर्मकथाः स्थानमेव न लभन्ते । नीलीरक्त वाससि, कुङ्कुमरागो दुराधेयः॥१॥ महाभारतेऽपि-एकदा मथुरायां समागतं दुर्वाससं मुनि प्राह धृतराष्ट्रनृपः-मुने! मत्पुत्राणां दुर्योधनादीनां धर्मशिक्षा ददस्व, यथा ते पाण्डुपुत्रैः सह न कलहायन्ते, मुनिराह-वेदागमपुराणोक्तियुक्तिवाक्यशतै रपि । दश धर्मे न बुध्यन्ते, धृतराष्ट्र ! निशम्यताम् ॥१॥ मत्तः प्रमत्त उन्मत्तः, श्रान्तः क्रोधी बुभुक्षितः । त्वरमाणश्च | भीरुश्च, लुब्धकामीत्यमी दश ॥२॥ इति । बधिरकुटुम्बेनोपमा यस्य स बधिरकुटुम्बोपमः, सोऽपि उपदेशाऽनहः, बधिरकुटुम्बसंबन्धो यथा-पुरकग्रामे स्थविरः, स्थविरा, सुतः, स्नुषा चेति कुटुम्बमवात्सीत्. सुतो हलमवायत्, पथिकैरन्यदा | पन्थानं पृष्टः प्रोवाच-ममैतौ गृहजातौ वृषौ, न वृषौ पृच्छामः कथय पन्थानमिति पुनस्तैरुक्तेऽवदत्-सर्वो वेत्ति ग्राम
श्चन्न प्रत्ययस्तर्हि ग्रामं व्रजामः, बधिरोऽयमिति विचिन्त्य गतास्ते. तावद् भक्तमानषीद भार्या, अवादीत् तदने शृङ्गितौ | वृषभावोति. साऽवक्-सलवणमलवणं वा युष्मन्मात्रा राद्धं किमहं वेद्मि ? ऊचे सः, निराकर्षमहं पथिकांस्तान्. भार्योचे-मम कोऽधिकारः, गृहागतोऽगदद् वृषस्वरूपं स्वमातुः, सा कर्तनकर्मकृत् प्रोवाच-श्लक्ष्णं वा स्थूलं वाऽस्तुस्थविरस्य वस्त्रं भविष्यति, स्नुषाऽभाषिष्ट-को मेऽधिकारो लवणे, श्वश्रूः-गतः स्थविरस्य श्लक्ष्णवस्त्रसमयः-सुषा, सर्व
00000000000000000000
Jain Education infernational
For Private & Personel Use Only
AIMjainelibrary.org