SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 000000000000000@@ ॥ अथ प्रकीर्णकोपदेशनानि तुर्येऽशे प्रथमस्तरङ्गः ॥ जयसिरिमंगलनिलयं, जलहिमविग्घाण सयलसुक्खाणं । सेवह जिणिंदभणिअं, धम्मं सुद्धेण भावेण ॥ १॥ यतः- कप्पतरुभवमकम्मा, निहिरयणाईहिं चकिहरिमाई। मणवंछिअं सुरा जं, भुंजंति सुहं तयं धम्मा ॥१॥ अकम्मत्ति-अकर्मभूमिजा मनुष्या देवकुरूत्तरकुर्वादित्रिंशत्क्षेत्रलब्धजन्मानः, उपलक्षणात् षट्पञ्चापदन्तरद्वीपमनुष्याश्च यत्कल्पतरुभवं सुखं भुञ्जते । तथाहि-अन्तरद्वीपेषु तावन्मनुष्याः सर्वे वज्रऋषभनाराचसंहननाः समचतुरस्रसंस्थानाश्च । तत्र नरा अनुलोमवायुवेगाः सुप्रतिष्ठितकूर्मचारुचरणाः सुकुमारश्लक्ष्णप्रविरलरोमकुरुविन्दवृत्तजङ्घायुगला निगूढसुबद्धसन्धिजानुप्रदेशाः करिकरसमवृत्तोरवः कण्ठीरवसदृशकटिप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनाभिमण्डलाः श्रीवत्सलाञ्छितविशालवक्षःस्थलाः पुरपरिघानुकारिदीर्घबाहवः सुश्लिष्टमणिबन्धा रक्तोत्पलपत्रानुकारिशोणिमपादतलाः चतुरङ्गुलप्रमाणसमवृत्तकम्बुग्रीवाः शारदशशाङ्कसोमवदनाः छत्राकारशिरसोऽस्फुटितश्लक्ष्णमूर्द्धजाः कमण्डलुकलशयूपस्तूपवापीध्वजपताकासौवस्तिकयवमत्स्यमकररथवरकूर्मस्थालांशुकाष्टापदाङ्कशसुप्रतिष्ठकमयूरश्रीदामाभिषेकतोरणमेदिनीजलधिवरभवनादर्शपर्वतगजवृषभसिंहचामररूपप्रशस्तोत्तमद्वात्रिंशल्लक्षणधराः । स्त्रियोऽपि सुजातसर्वाङ्गसुन्दर्यः समस्तमहि 000000000000000000000 Jain Education inte For Private & Personel Use Only CHOTainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy