________________
मुनिसुन्दर चरन्ति, सामान्यतो जीवाश्च चरन्तीति वा, इत्युक्तिसंटङ्कः । तत्र ये यथा श्रीसर्वज्ञागमोक्तमार्गेण चरन्ति ते अनुश्रोत
उपदेशा सू० वि० चरा उच्यन्ते मुनयः श्राद्धा जीवाश्च । ये पुनः सर्वज्ञागमस्य प्रतिकूलमार्गेण चरन्ति ते प्रतिश्रोतश्चराः, यथा निवाः, तरंग ६
लयद्वा यथा यथाच्छन्दाः। तदुक्तम्-उस्सुत्तमायरंतो, उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाच्छंदो, इच्छाछंदुत्ति का ॥२१॥
एगट्ठा ॥१॥ये चान्येऽपि महामोहाभिभूततया सुगुरुप्वनास्थाभृत्तया गम्भीरभावानि श्रीजिनागमवचनानि यथास्वमत्यर्थापयन्तस्तथा तथा स्फुरद्विविधकदाग्रहगृहीतचेतस्कतयोत्सूत्रं स्वयं समाचरन्ति, परान् प्रज्ञापयन्ति च । तेऽपि मुनयः श्राद्धाश्च प्रतिश्रोतश्चरा ज्ञेयाः, कलियुगे प्रायो बहवस्तथाविधाः स्फुटा एवेति न निदर्शनमहन्तीति २। ये पुनर्जिनोक्तमार्गस्य समीपगताश्चरन्ति तेऽन्तेचराः, यथा पार्श्वस्था मुनयः, ते हि चारित्रमार्ग न स्पृशन्ति, किन्तु तत्पार्थे |तिष्ठन्तीति पार्श्वस्था उच्यन्ते । तथा सम्यक्त्वाणुव्रतादिश्राद्धधर्मरहिता नमस्कारगुणनजिनार्चनवन्दनाद्यभिग्रहभृतः श्रावकाभासा अप्यत्रोदाहरणीकार्याः, यतस्तेऽपि श्राद्धधर्मस्य पार्श्वस्था इति ३ । यद्वा जिनागमस्यान्ते चरा इति, कोऽर्थः ?, तदन्तसमानगाथाषट्पदादीन् पठन्ति, तथाविधरुचिमत्तया।न तु जिनागमं सूत्रतः स्पृशन्त्यपि, तथाविधपार्श्वस्थादिवदिति । तथा मध्येचराः केचिद् ये जिनागमं सर्वतः स्पृशन्ति, सूत्रतोऽर्थतश्च तदवगाहकत्वात् , मध्येचरत्वमात्रमत्र विवक्षितं नत्वनुश्रोतःप्रतिश्रोतश्चरत्वे । यद्वा ये शिथिलक्रियात्वेऽपि सम्यक्सूत्रार्थाभ्यवगाढजिनागमजलधिमध्या नानुश्रोतश्चरन्ति नापि प्रतिश्रोतः, स्वल्पस्य क्रियादिगुणस्य स्वल्पस्य प्रमादस्य वा विवक्षणात् , तेऽत्र भङ्गेऽवतरन्ति, यथा श्रीआर्यमङ्गसूरिः। श्रीआगमस्य मध्येचरत्वमपि खलु महाफलम् । यदागम:-नाणाहिओ वरतरं, हीणोविहु पवयणं पभाविन्तो । न य दुकरं करितो, सुट्ठ वि अप्पागमो पुरिसो॥ १॥ अपि च-सूई जहा ससुत्ता, न नस्सई
0900000000000000000
626
JainEducation
For Private
Personel Use Only
w.sainelibrary.org