SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ - 0000000000000000000 ॥ अथ तृतीयस्तरङ्गः॥ कम्मरिउजयसिरीए, लहिउं कह कहवि धम्मसामग्गिं । सुहसंपयं जईच्छह, मा मुज्झह इत्थ विसयसुहे ॥१॥ यतः-अंवकए सो रजं, हारेई विंदुहेउमुदहिं वा। कागिणिकए सहस्सं, सग्गाइ अ जो विसयहेउं ॥२॥ __ सप्तमश्रीउत्तराध्ययनगतदृष्टान्तत्रयोपदर्शनेन धर्मोद्यमोपदेशमय्या अस्या गाथाया व्याख्या यथा-'सग्गाइ अत्ति'! यो विषयहेतुकं स्वर्गादि हारयतीति । तत्र प्रस्तावाद विषया अनुभूयमानभवसम्बन्धिन एव पञ्चेन्द्रियार्थरूपाः, ते हेतवोनिमित्तानि यत्र हारणे इति क्रियाविशेषणम् । स्वर्ग आदिर्यस्य कल्पातीतसुरापवर्गादिसुखसम्पल्लक्षणफलस्य तत्स्वर्गादि हारयतीति, कार्ये कारणोपचारात् स्वर्गादिसुखप्रदं धर्म हारयतीत्यर्थः, अन्यथा असतः स्वर्गादेहारणं कथं सङ्गच्छते ?, ततश्चायमर्थः-यो विषयास्वादलम्पटतया विषयाङ्गमेलनाद्यासक्ततया च स्वर्गादिसुखऋद्धिफलं धर्म हारयति विषयहेतुकम् , _ 'अंबकए' इत्यादि, स आम्रफलकृते राज्यं हारयति, बिन्दुहेतुकमुदधिं हारयति, काकिणीकृते सुवर्णसहस्रं च हारयतीति । त्रयोऽप्यमी दृष्टान्ता यथाक्रम किञ्चिद्वित्रियन्ते यथा-वचित्पुरे कश्चिन्नृपः प्रजां पालयन् जलधिमेखलां पृथिवीं शास्ति स्म, तस्यान्यदा चूतफलास्वादलौल्यातिरेकेण कश्चिन्महाव्याधिरुन्मीलति स्म, वैद्यैः कथमपि चिकित्सितो 30000000000000000000000 नाना 000 Jain Education in For Private Personal Use Only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy