________________
मुनिसुन्दर सू० वि०
उपदेश तरंग ३
॥२०७॥
000000000000000000001
नीरुक् कृतः, परमात्रफलनियम ग्राहितो नृपः । उक्तश्च-यदा पुनराम्रफलं भोक्ष्यसे तदैव व्याधिः पुनरुन्मीलिष्यति, असाध्यश्च भावीति । ततः सुबहुषु वर्षेष्वतिक्रान्तेषु स नृपोऽन्यदा ग्रीष्मे वनमालिकेन ढौकितानि सुपक्कानि प्राणतर्पक
परिमलानि सुरूपाणि सहकारफलानि दृष्ट्वा तरलितरसज्ञस्तानि रसितुं मनोऽकार्षीत् । तज्ज्ञात्वा मन्त्रिणा बहुधा निषिजाद्धोऽपि स नृपतिः इयत्सु वर्षेषु न कदापि स्फुटीभूतः स व्याधिस्तन्नूनं क्षीणः, अपि च एकमात्रफलं भक्षयामि, एकेना
नेन न कोऽप्यवगुणो भावीति वदन्नेक सहकारफलमास्वादितवान् । ततः सद्यः समुन्मीलितपूर्वव्याधिना बहुप्रतीकाररप्यसाध्यत्वं प्राप्तेन पीडितः प्राणान् राज्यं चाहारयदिति । अत्रतावद्राज्यसमं स्वर्गादिसुखम् , एकाम्रफलसमं पुनरैहिकं विषयादिसुखं सर्वोत्तरमिति दृष्टान्तदाान्तिकयोजनादि सुगममित्युपेक्ष्यते। तथा 'बिंदुहेउमुदहिं ति' तथा चागमः-जहा|
कुसग्गे उदयं, समुदेण समं मिणे । एवं माणुस्सगा कामा, देवकामाण अंतिए ॥१॥एतद्भावनाऽपि सुगमैवेति । 'कागिलाणिकए सहस्सं ति' कश्चिद्धनार्थी धनार्जनार्थ देशान्तराणि भ्राम्यन् सुवर्णसहस्रमुपार्जयत् । ततस्तद् गृहीत्वा सुसार्थन
गृहं प्रति चलन् क्वचिद्रामा बहिर्भोजनार्थ स्थितः । तेन च पथि भोजनार्थ पदे पदे विलोक्यमानत्वादू रूपकं भइतवा | काकिण्यः कृताः सन्ति । रूपकस्याशीतितमो भागः काकिणीति प्रसिद्धिः, क्वचित्तु विंशत्या वराटकैः काकिणीत्युक्तम् ।। एवंविधैका काकिणी तेन तत्र क्वापि पातिता । भोजनानन्तरं सार्थेन सह चलितःस कियत्यपि पथ्यतिक्रान्ते तां काकिणी स्मृत्वा बहुभिर्वारितोऽपि तच्छोधनार्थ चलितः। तत्र ग्रामे भोजनस्थाने तां शोधयन्नप्यलब्धपूर्वी उत्सूरे एकाकी पुनश्च
இது ஒரு இருவரும்
SU॥२०७
भा
For Private
Personel Use Only
T
ww.jainelibrary.org