________________
॥ अथ द्वितीयस्तरङ्गः॥ | सवारिजयसिरीए, जीवा सुहमेव निच्चमिच्छन्ति । तदुवायं पुण भयवं, गोयमपुट्ठो भणइ एवं॥ १॥
सुक्खं मुक्खे सो पुण, अणाइनयरस्स चायओ तं च । देइ पहू गुणचाया, सो दुलहो दूसमे जम्हा॥२॥ । व्याख्या-सौख्यं तात्त्विकं मोक्षे, स च मोक्षोभरतैरावतक्षेत्रेषु सुषमदुष्षमायां तृतीयारकस्यान्ते दुष्पमसुषमायां चाभूत् , दुष्पमापरिणतौ च न ; कोऽत्र हेतुः इति गौतमेन पृष्टे भगवान् वर्धमानस्वामी प्राह-सच मोक्षोऽनादिनगरस्य जीवानाम-10 नादिवासस्थानत्वात् संसाररूपस्य त्यागतो भवति । तं च संसारनगरस्य त्यागम् , अर्थात्तस्यैव संसारनगरस्य प्रभुः स्वामी || |मोहनामा गुणत्यागाद्ददाति । अन्योऽपि प्रभुर्निर्गुणान् स्वपुरत्यागं कुर्वतोऽनुमन्यते, नतु महर्द्धिकत्वादिगुणैः सद्गुणान् , तथा मोहोऽपि । संसारस्य पुरत्वं मोहस्य पुनः प्रभुत्वं स्वधिया शास्त्रान्तरेभ्योऽवसेयं व्यावर्णनीयं च । स च गुणत्यागो दुष्षमायां पञ्चमारके दुर्लभस्तस्मात्तत्र जातजन्मनां जन्मिनां न मोक्षः । जम्हेति पुरस्त्यगाथायां सम्बध्यते।। | [यस्मात्कलिकालजीवाः, लोकप्रसिद्ध्या दुष्षमायाः कलिकालनामकत्वादेवन्यासः, गुणवन्त एव भवन्तीत्यत्राभद्रमुखे भद्रमुख इति लक्षणाया विन्यासः]
तथैवाहमन्ने कलिकालजिआ, सेवयजणवच्छला अचलचित्ता। निल्लोहा य अकिविणा, साहसिया नेरिसा पुविं॥३
000000000000000
उ० ३५ Jain Education
।
For Private & Personel Use Only
M.jainelibrary.org