SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ OOOOOOOOOாருருருருமுருக क्लेशव्यथाकरणपूर्व ग्रहणादिना व्यवसायाधुपद्रवपातन्त्रव्यादिना चानुभवसिद्धमेव । तथा चोक्तम्-दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमिभुजो, गृहन्ति च्छलमाकलव्य हुतभुग भस्मीकरोति क्षणात् । अम्भः प्लावयति क्षितौ विनिहितं यक्षा हरन्ते हठाद्, दुवृत्तास्तनया नयन्ति निधनं धिग बह्वधीनं धनम् ॥२॥ कृत्वा क्षयं स्नेहदशा गुणानां, प्रदीपलेखेव पलायते श्रीः। अवश्यमेकं ह्यवशिष्यते तद, मालिन्यमस्मिन् जनितं तया यत् ॥ २ ॥ अध्यात्मकल्पद्रुमेऽपि-1 यानि द्विषामप्युपकारकाणि, सर्पोन्दुरादिष्वपि यैर्गतिश्च । शक्या न चापन्मरणामयाद्या, हन्तुं धनेष्वेषु क एव | मोहः॥३॥ क्षेत्रवास्तुधनधान्यगवाश्चै-मलितैः सनिधिभिस्तनुभाजाम् । क्लेशपापनरकाभ्यधिकः स्यात, को गुणो15 यदि न धर्मनियोगः१॥४॥ इत्यादिविस्तरोऽध्यात्मकल्पद्रुमाज्ज्ञेयः। चक्रिवासुदेवादीनामपि मरणे तंन्निधिरत्नादीनां भूम्याकाशगमनादिना परकीयभवनादिना च विनश्वरत्वं प्रतीतमेव । जीवितयौवनादीनामपि विनश्वरत्वं प्रसिद्धमेव । तदुक्तम्-श्वास एष चपलः क्षणमध्ये, यो गतागतशतानि विधत्ते । जीविते तनुमतां तदधीने, कः सुधीश्चरति धर्मविल. म्बम् ? ॥१॥ चर्मवर्म किल यस्य न भेद्यं, यस्य वज्रमयमस्थि च तौ चेत् । स्थायिनाविह न कर्णदधीची, तन्न धर्ममवधीरय धीर ! ॥१॥ शरदभ्रसमाः श्रियोऽखिला-स्तटिनीपूरसमं च जीवितम् । नटपेटकवत् कुटुम्बकं, ननु किं मुह्यसि धर्मकर्मसु ? ॥२॥ इत्यादि । इति देहजीवितयौवनादिस्वरूपमवगत्य धर्मयत्न एव कार्यः। यतः-'न उ जीवो त्ति कान तु जीवो विनश्यति। स हि परिणामी साक्षाद्भोक्ता कर्ता देवनारकादिगतिपर्यायसंसर्ता सकलकर्मक्षयाच्च शाश्वतसौख्यं || मोक्षं गमी । यतः 'चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्र भिन्नः पौद्गलिकाऽदृष्टवाँश्चायमिति 10000000000000000000000 Jain Education Interdlonila For Private & Personal Use Only M ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy