SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Jain Education R यस्य च कृमिदंशमशकशलभचशुपुटयूकामत्कुणादयः कलत्रादयो वा दंशहारका इव हि निश्चितं भोगिनः तस्मिन्नशुचि Q) त्वादिना कुत्सितेऽङ्गेऽङ्गके हे पुरुष ! तव किं ममता ?, ममैवेदमितिबुद्धिरिति भावः २ । न चायमात्मन्येव सुखादिफलदायी, देहसुखादिना इह परत्र चात्मनः सुखाद्यनुत्पत्तेः । शोकाद्यवस्थायां भवान्तरावस्थायां च तथा विभावनात् ३ । तथा परैर्वन्दिरोगवैरिप्रभृतिभिरपहार्यत्वं चास्य प्रतीतमेव ४ । तथा परवशश्चायं, स्वल्पेऽप्यामयादौ स्वेच्छया चलनादिॐ क्रियाणां कर्तुमशक्तेः ५ । अशुचिरप्ययम् - यस्य सङ्गममात्रेण, वस्त्राहारगृहादयः । क्षणादशुचितां यान्ति, नृदेहे कात्र रम्यता ? ॥ १ ॥ अवोचाम च तथाऽध्यात्मकल्पद्रुमे - चर्मास्थिमज्जान्त्र वसात्रमांसा - ऽमेध्याद्यशुच्य स्थिर पुद्गलानाम् । स्त्री| देहपिण्डाकृतिसंस्थितेषु, स्कन्धेषु किं पश्यसि रम्यमात्मन् ! ॥ १ ॥ इत्यादि । धनस्वजनादीनामप्यनया दिशा भवान्तराऽसहगमनादि भावनीयम् । तदुक्तम्- धनानि तिष्ठन्ति गृहेषु नार्यो, विश्रामभूमौ खजनाः श्मशाने । देहं चितायां ॐ परलोकमार्गे, कर्मानुगो याति स एक एव ॥ १ ॥ अत एतेषु नात्मीयबुद्धिः कार्या त्राणशरणाद्य हेतुत्वात्, तदुक्तं सूत्रॐ कूदने वित्तं पसवो अ नाइओ, तं बाले सरणं ति मन्नई। एए मम तेसु वि अहं, नो ताणं सरणं विवज्जए ॥ १ ॥ श्रीउत्तराध्ययनेऽपि न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा । इक्को सयं पञ्चणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ १ ॥ इत्यादि । अत एतेषु ममतापरिहारेण कर्मस्वेवात्मबुद्धिः कार्या । तानि च शुभाशुभरूपतया द्विधा, तत्राशुभानि दुःखफलानीति मत्वा तत्परिहारे शुभानि सुखफलानीति परिज्ञाय तदर्जने च सर्वशक्त्या यतितव्यमित्युपदेशः । तथा चाख्यायि तरङ्गान्तरे - अघमातनुते यदर्थयन्, धनभोगादि न तज्जडोऽश्नुते । यदि वाणु चलं । For Private & Personal Use Only w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy