SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ दुःखानि सहन्ते भवे च पतन्ति, क्षीरकदम्बोपाध्यायपुत्रपर्वतक मैत्रीदाक्षिण्यादिना वसुनृपतिवद्, वालचन्द्रवचनाच्छ्रीरामचन्द्रविडवनाकार काजयपालादिवच्च । देहमोहान्मांसभक्षणादिपापानि, तत्फलानि च प्रतीतान्येव । ज्ञातेर्मोहात्तत्पक्षपाता दिना युद्धकलहधर्मविघ्नादिकराः सम्प्रत्यपि बहवः प्रतीता एव । धणवग्गत्ति-वर्गप्रयोगाद्धन १ धान्य २ क्षेत्र ३ वास्तु ४ रूप्य ५ सुवर्ण ६ कुप्य ७ द्विपद ८ चतुष्पद ९ रूपो नवधापि परिग्रहो ग्राह्यः । अत्र - तृप्तो न पुत्रैः सगरो, कुचिकर्णो न गोधनैः । न धान्यैस्तिलकः श्रेष्ठी, न नन्दः कनकोकरैः ॥ १ ॥ इत्यादयो दृष्टान्ताः । अथवा धनशब्देन परिग्रहोपलक्षणं, वर्गशब्देन नटबटुगायनचौरादीनां पेटकान्यन्यान्यसम्बद्ध समुदायरूपाणि गृह्यन्ते, स्वस्वपेटक मोहपक्षपातादिना युद्धादीनि पापानि प्रसिद्धान्येव । तथा विप्रपार्श्व| स्थादिस्वस्व गुरु पक्षपातादिना सुविहितप्रद्वेषादिगणभेदेन मिथो द्वेषादि च प्रसिद्धमेव । तथा कुदेवपक्षपातादिना सुदेवप्रा| सादप्रतिमाविध्वंसादीनि पाहूणादिकृतानि प्रसिद्धान्येव । स्वस्वाधर्माणां च मोहात्तत्पक्षपातादिना सद्धर्मकारिणां बाधादि मिथ्यात्विभिः क्रियत एव । एवं त्रयोऽपि दृष्टिरागभयम् । एवं द्वादश मोहस्थानानि उपलक्षणात् प्रतिभेदगणनाद् वाऽसङ्ख्यानि वा मोहस्थानानि भयहेतवः । अथवा 'मोहत्ति' मोहनीयं कर्म दर्शनत्रिकषोडशकपायनव नोकपायरूपमष्टाविंशतिविधं भवहेतुत्वाद् भयम् । तत्र मिथ्यात्वमिश्रयोर्भवहेतुत्वं प्रसिद्धम् । सम्यक्त्वमोहनीयस्यापि केवलज्ञानविघ्नकारित्वमस्त्येवेति । कषायनोक पायाश्च महावैरादिहेतुत्वाद् भवहेतव एवेति सुष्टकं मोहो भयमिति । तत्त्वपरिज्ञया जानन् प्रत्याख्यानपरिज्ञया च परिहरन् भवान्मुच्यत एव नान्यथेति । तदुक्तम्- भयमेव यदा न बुध्यते स कथं नाम Jain Educationonal For Private & Personal Use Only 50000065036666669636969964 w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy