________________
मुनिसुन्दर सू० वि० ॥१९९॥
मदुक्खा अनियनिष्टसंयोगादिकलत्वात् परिणाम
00000000000000
शक्नोति । जह सबकामगुणिअं, पुरिसो भोत्तूण भोअणं कोई । तण्हा-छुहाविमुक्को, अच्छिज्ज जहा अमिअतित्तो॥३॥ उपदेशर इअ सबकालतित्ता, अउलं निवाणमुवगया सिद्धा । सासयमबाबाहं, चिठ्ठन्ति सुही सुहं पत्ता ॥४॥ इत्यादि नमस्कार-10 तरंग १ नियुक्त्यादिभ्यो ज्ञेयम् । तस्मान्मोक्ष एव पारमार्थिक सौख्यम् । सांसारिकसौख्यं तु इष्टपञ्चप्रकारविषयभोगजं व्रण-1 चिकित्सादिदुःखप्रतीकारसन्निभं सत्यकिविद्याभृत्-सुभूम-ब्रह्मदत्तादिवन्नरकादिफलत्वात् परिणामविरसं स्वल्पकालीनं बहुकालदुःखं तुच्छफलं नानाऽऽधिव्याधिपराभवेष्टवियोगानिष्टसंयोगादिदुःखैर्विमिश्रितं तत्त्वतो दुःखमेव । तदुक्तम्खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा । संसारमुक्खस्स विपक्खभूआ, खाणी अणत्थाण य कामभोगा ॥१॥ जहा य किंपागफला मणोरमा, रसेण वन्नेण उ भुज्जमाणा । ते खुद्दए जीविअपच्चमाणा, एओवमा कामगुणा विवागा ॥२॥ इत्यादि । अभ्यधिष्महि च-चपलं धनमायुरल्पक, स्वजनाः स्वार्थपरा वपुः क्षयि । ललनाः | कुटिलाः कुतः परा-भवभीविघ्नभृते भवे सुखम् ॥ १॥ अतो मोक्षसौख्यार्थमेव यतितव्यं विज्ञैरित्युपदेशोपनिषत् । तस्य च मोक्षसुखस्य हेतुर्ज्ञानादयः-सम्यग्ज्ञानदर्शनचारित्राण्येव, नतु पवनसाधनादियोगाग्निहोत्रपञ्चाग्निसाधनधूमपानादिकृच्छूकन्दमूलाधाहारकृत्तापसपरिव्राजकादिव्रतक्रियास्नानमिथ्यादानमिथ्यातपःक्रियादयः । तदुक्तम्-परःसहस्राः शरदस्तपांसि, युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो, न मोक्षमाणा अपि यान्ति मोक्षम् ॥१॥ तथासर्हि वाससहस्सा, तिसत्तखुत्तोदएण धोएण । अणुचिन्नं तामलिणा, अन्नाणतवुत्ति अप्पफलो ॥ १ ॥ तामलितणइ तवेण, जिणमइ सिज्झइ सत्त जण । अन्नाणह दोसेण, तामलि ईसाणिं गयउ॥२॥ तथा नमिप्रव्रज्यानामनि श्रीउत्तराध्य
१९९
Jan Education
For Private
Personal Use Only