SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 660GGGGGG40300000000-900 चातुर्विद्यान् मेलयित्वा श्रावयित्वा च वणिगुक्तमादिष्टा वनकुट्टका, इह देवाधिदेवप्रतिमां कुरुतेति. कृतेऽधिवासने भणितं ब्राह्मणैर्देवाधिदेवो ब्रह्मा, तस्य प्रतिमां कुरुत. वाहितः कुठारो, न तु वहति. अन्यैरभाणि, विष्णुर्देवाधिदेवः, तथापि न वहति, एवं स्कन्दरुद्रादिदेवभणनादि. इतश्च सिद्धे भोजनपाके प्रभावतीराश्या प्रहिता दासी नृपस्याकाकारणाय, सा तु सुखिताऽस्ति, अस्माकं पुनरीदृशः समयो वर्तत इत्यभाणि दास्या मुखेन राज्ञी प्रति. निवेदितं तया राय, का ततः प्रभावत्यवक्-अहो ! मिथ्यात्वमोहिता देवाधिदेवमपि न शृण्वन्ति. ततः सा नृपानुज्ञया स्नाता कृतकौतुकमङ्गला शुक्लवस्त्रपरिधाना बलिपुष्पधूपकडुच्छुकहस्ता सदस्यागत्याह-देवाधिदेवो वर्धमानस्तस्य प्रतिमा क्रियतामित्युक्ते वाहितः कुठारः, एकघात एव द्विधाऽभूद्दारु, दृष्टा च पूर्वनिर्मिता सर्वालङ्कारभूषिता भगवतो वर्धमानजिनस्य प्रतिमा. स्थापिता च राज्ञा गृहासन्ने नव्यकृते चैत्ये, अष्टमीचतुर्दश्योः प्रभावती भक्त्या स्वयं नृत्यं करोति, राजाऽपि तदनुवृत्त्या मुरजं वादयति. अन्यदा नृपेण नृत्यन्त्या राश्याः शिरश्छाया न दृष्टा, उत्सात इति कृत्वा व्यग्रचित्तोऽ भून्नृपः, स्खलितश्च मुरजध्वनिः, रुष्टा देवी, ततो राजाऽऽह, मा रुषः, उत्सातो दृष्टस्ततः स्खलितोऽस्मि, उक्तं प्रभाकावत्या-जिनमतप्रपन्नैर्न भेतव्यं मरणात्. अन्यदा पुनः स्नाता प्रभावती देवपूजार्थ शुद्धवस्त्रे आनाययत्. आनीयमाने / |च ते अन्तरा कौसुम्भरागरक्त इव संवृत्ते, राज्या दर्पणे पश्यन्त्या उपनीते च रुष्टा च सा, देवायतनं प्रविशन्त्याः किममङ्गलं में करिष्यसि ? किं वासगृहं प्रवेशिन्यहमिति भणित्वा च आनेत्रीं दर्पणेनाजधान. प्राणैरमुच्यत सा, ततोकाऽचिन्तयद्राज्ञी, चिरानुपालितं भग्नं ममाद्य प्रथमं व्रतमेषोऽपि ममोत्पातः. ततो नृपं व्यजिज्ञपत्, युष्मदनुज्ञाताऽहं 3000000000000000000000 Jain Education aal For Private & Personel Use Only w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy