________________
उपदेशर० तरंग ९
मुनिसुन्दर प्रवृत्तिनिमित्तं गम्भीरोदाराशयताहेतुः प्रायः स्वपरधर्मोपकारप्रवृत्तिजननी, भवान्तरे प्रतिपतितापि सुलभा, पञ्चम्याः, सू०वि० कासकाशात् स्वल्पतरैरेव भवैर्मुक्तिसुखं ददाति, अप्रतिपतिता तु षट्षष्टिसागरमध्ये ६॥
2 सप्तमी पुनः सूरप्रभानिभा प्रायो भवान्तरेऽप्यप्रतिपातिनी,सर्वदा सद्ध्यानमयी, परोपकारैकप्रवर्तिनी, प्रशमसारसुखनि॥१९॥
दानं, देवमायाभिरप्यशक्या संशयादि नेतुं, स्वस्य परेषां च सर्वान्तरतमोनिर्नाशिनी, सर्वानुष्ठानप्रवर्तिका, सर्वसूक्ष्मार्थबोलाधरूपा, सर्वकमलोल्लासिनी, आसन्नकेवलालोका, सत्तामात्रीकृतकषायतापा, सर्वभव्यानां गोचरप्राप्तानां सद्यस्तत्त्वावबो
धकारिणी, प्रायस्तृतीयभवे "दो वारे विजयाइसु, गयस्स तिन्नचुए अहव ताई" इतिन्यायेन पञ्चभिः सप्तभिर्वा भवैरुत्कर्षतः षट्षष्टिसागरमध्ये मुक्तिसम्पदं सम्पादयति ॥ ७॥ | अष्टमी तु चन्द्रप्रभाप्रभास्वरा पूर्वोक्तसविशेषगुणयुक्ता, अत्यासन्नकेवलालोका सम्पन्न केवलालोका वा, क्षीणप्रायकषाया का सर्वथा क्षीणकषाया वा, सर्वभव्यावबोधप्रदा जगदानन्ददायिनी तद्भव एव मुक्तिसुखकमलाविलाससमुल्लासयन्ती । इत्युत्तरोत्तरायाः प्राप्तौ यतितव्यं मुक्तिसुखाभिलाषिभिः॥८॥
इत्यष्टधा धर्मरुचीर्निबुध्योत्तरोत्तरायां कृतिनो ! यतध्वम् ।
यथा लभध्वं शिवशर्म सद्यो, जयश्रिया दुर्जयमोहशत्रोः ॥१॥ इति तपा०श्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे जयथ्यङ्केमध्याधिकारे द्वितीयेशेऽष्टभेदधर्मरुचिनामा नवमस्तरङ्गः॥
ஒCOCOSE இருக
For Private
Personal Use Only
Srijainelibrary.org