________________
मुनिसुन्दर सू० वि०
उपदेशर० तरंग ८
॥ १८९॥
@ ब्रह्मचारिता ॥२॥ ततःसहानीतमोदकादि मुनये दत्त्वा पूर्णाभिग्रहा तथैव बुभुजे । ततोवलमाना मुनिमप्राक्षीत्-इदानीं नदी
कथमुत्तार्येति? मुनिरप्याह-"नदीं वदेः यद्यसौ मुनिराव्रतान्नित्यमुपोषितश्चरेत्तदा मे मार्ग देहीति"। ततो नद्यां तथैवोक्त्वा । सुखेन स्वगृहमागमत् । नृपाग्रे मुनेर्मोदकविहरणादि वदन्ती उपोषितत्वहेतुं पप्रच्छ । राजाख्यदेवि ! मुग्धाऽसि, धर्मतत्त्वं न वेसि । समचित्तो महात्मायमशनेऽनशनेऽपि, अकृताकारितं शुद्धमाहारमश्चतश्च मुनेर्नित्यमुपवास एव । तत् श्रुत्वा जिनधर्ममाहात्म्यदर्शनविस्मिता राज्ञी धर्मे दृढाऽभूदिति । अनयोः सूरनृपसोममुन्योः शर्करोपमो धर्मपरिणाम इति । एवं श्राद्धधर्ममाश्रित्य भाविताः पडपि दृष्टान्ताः । एवं यतिधर्ममप्याश्रित्य भाव्याः, यथास्थानं दृष्टान्ताश्च स्वयं योजनीया इति । येषां बहुलसंसाराणां धर्मपरिणामः स्वल्पोऽपि नास्ति ते पुनर्नात्राधिकृताः । श्रीश्रेणिककृष्णनृपादीनां तु शर्करोपमेऽपि धर्मपरिणाम प्राग्नरकबद्धायुष्कत्वसनिदानत्वादिना न विरतिप्रतिपत्तिरिति । एष च पोढा धर्मपरिणामः क्रमात् प्रायोऽनासन्नतमा १ऽनासन्नतरा २ ऽनासन्ना ३ ऽऽसन्ना ४ ऽऽसन्नतरा ५ ऽऽसन्नतम ६ सिद्धिकानां वेदितव्य इति । " एवं जीवाण विसयरसा” इत्यप्यन्त्यपदपाठो ज्ञेयः। तत्र दृष्टान्तभावना प्राग्वत् । दाष्टान्तिकभावना तु एवंयवनालदण्डादिरसप्रकारेणासन्नतमा १ऽऽसन्नतरा २ ऽऽसन्ना३ऽनासन्ना ४ऽनासन्नतरा ५ऽनासन्नतमसिद्धिका ६ भवसिद्धिकानां ६ यथोत्तरं गुल्या विषयरसा भवन्ति । तत्र शर्करोपमो विषयरसो नरकादिदुर्गतिदुःखफलः, स्त्रीरत्नादीनामिव । एवं शेषदृष्टान्ताः प्रतिपदं स्वयं ज्ञेयाः । यद्यप्यासन्नसिद्धिकानामपि केषाञ्चित् शर्करोपमगुल्यप्रतिभासा विषयरसाः श्रूयन्ते मेतार्यब्रह्मदत्तचक्यादीनामिव, परं ते धर्मविराधनादिजनितत्वेन नात्र व्यभिचारहेतव इति । “जिआण
Join Education
For Private
Personal Use Only
.org