________________
EDEDEOC
DO00000000000000
| मिच्छपावरसा" इत्यपि वान्त्यपदपाठः । इत्येवं यवनालदण्डादिप्रकारेण प्राग्वत् पड़िधानां जीवानां यथोत्तरं गुल्यप्र तिभासाः, मिच्छत्ति मिथ्यात्वं, पापं च पञ्चेन्द्रियवधादि तद्विषया रसा भवन्ति । तत्र शर्करोपमो मिथ्यात्वरसो नरकादिदुर्गतिदुःखफलस्तुरुमिणीशदत्तनृपपिष्पलादीनामिव, पापरसश्च कालसौकरिकतन्दुलमत्स्यादीनामिव । एवं शेषपदेष्वपि दृष्टान्तभावनेति । यस्तु केषाञ्चिदासन्नसिद्धिकानामपि शर्करायुपमो मिथ्यात्वरसः पापरसश्च श्रूयते प्रदेशिनृपादीनां केसरिचौरचिलातीपुत्रादीनामिव च, सोऽपि प्राग्भवधर्मविराधनादिजन्य इति न व्यभिचारहेतुरिति ।
यवनालदण्डादिनिदर्शनान्यमू-न्यधिग(न्यवे)त्य धर्मे धरतोत्तमं रसम् ।
भविकागिनोऽभीप्सथ मोहविद्विष-जयश्रिया यद्यमृताश्रयं सुखम् ॥१॥ ॥ इति तपा०श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे जयथयङ्के मध्याधिकारे द्वितीयेशेऽष्टमस्तरङ्गः॥
E
SOD
Jain Educaton
For Private & Personel Use Only
w.jainelibrary.org