________________
॥ अथ सप्तमस्तरङ्गः॥ जयसिरिसुहाइ सवं, जिणधम्माराहणप्फलं लोए। नाणाविहारई पुण, धम्मम्मि जिआण भाविसिवा॥१॥ यतः-जह वरजलभरिअसरे,वायससाणेभहंसमाईण। चायलिहणासिअयरइ,जिणवरधम्मे तह जिआणं२|| । अत्र जिनधर्मस्य निर्मलजलभृतसरस उपमानं वीतरागादिदोषदेवतत्त्व-पञ्चमहाव्रताष्टादशसहस्रशीलाङ्गधारिगुरुतत्त्वपञ्चास्रवादिरहितधर्मतत्त्वमयत्वेन रागादिसावद्यमलरहितत्वादवसेयम् , अर्थादपरधर्माणां तद्विपरीतदेवगुरुधर्मतत्त्वमयत्वात् कर्दमाकुलतुच्छजलाश्रयतुल्यत्वम् । ततश्च यथा वायसो निर्मलजलभृतं सरस्त्यजति, कर्दमाकुले तुच्छे जलाश्रये च रतिं कुरुते, तदलाभे तु स्त्रीशिरःस्थघटादो चञ्चक्षेपं करोति तथा केचिदधमा जिनधर्म जिनगुरुनत्यादिरूपं न स्पृश|न्ति, प्रागुक्तजलाश्रयोपमकुधर्मेष्वेव रतिं कुर्वते, केचित्तु स्त्रीघटवत् सातिशयतीर्थयात्रामानितशिरोमुण्डनभोगोपयाचिकातादिरूपं किञ्चिद्धर्ममिहलोकार्थ स्पृशन्त्यपि १॥
__यथा च श्वानो महासरसि प्राप्तोऽपि जलस्य लेहनं करोति नतु घुण्टघुण्टैः पानं, तथा केचित् कर्मवशात् कुगुरुविप्रKaiतारणादिना वा महत्त्वाद्यर्थ श्राद्धादिसंसर्गदाक्षिण्यादिना कौतुकैककारणादिना वा कदाचित कदाचिजिनगृहगमन-सातिशयतीर्थयात्रा-सातिशयगुरुवन्दन-परिचितकरण-सरससकौतुकतदुपदेशसूक्तादिश्रवणादीनि कुर्वतेनतु सम्यगनुष्ठानादि।
केचिच्च गजवजिनधर्मसरसि सम्यग्दर्शनादिश्राद्धधर्मरसं पिबन्ति, आशिततां नाम तृप्तिं प्राप्नुवन्ति, सदनुष्ठानादि
DOOOOOOO-30-99900999
60000000000000000
उ.३२ Jain Education inval
For Private & Personel Use Only
Mojainelibrary.org