________________
000000000000000000
|धर्माच्चोत्कर्षतो ज्योतिष्कदेवगतिरिति ४ । पञ्चमनिशावदधिकतरोद्योतश्चरकपरिव्राजकादिधर्मः । तस्य मिथ्यातमोभृत्वेऽपि तादृक्क्षमाशमेन्द्रियदमसर्वजीवानुकम्पापरिणामभवनिर्वेदादिरूपाधिकोद्योतत्वात् । एतद्धर्माराधकास्तामलिऋष्यादयो बहुशुद्धपरिणामाः प्रतिपादिताश्चागमेऽपि । एतद्भङ्गधर्मात् पुनः पञ्चमदेवलोकं यावद् गतिरिति । शुक्ल द्वितीयात आरभ्य शुक्लाष्टमी शुक्लदशमी वा यावदेव च हीनचन्द्रनिशैतद्भङ्गधर्मस्योपमानमवसेया। ततः परंतु सा मन्दविशुद्ध१ विशुद्ध २ सुविशुद्ध ३ विशुद्धतरादिभेदस्याविरतसम्यग्दृष्टिधर्मस्योपमानमिति ५। षष्ठनिशावत् सम्पूर्णोद्योतः पुनविशुद्धतमोऽविरतसम्यग्दृष्टिधर्मः । तस्य च सर्वतो निरस्तमिथ्यात्वान्धकारत्वेन सम्यग्जीवादिपदार्थप्रकाशकत्वेन च सम्पूर्णोद्योतत्वं, परं यथा सजलदेऽपि दिने क्रियाप्रवृत्तिः स्याजनानां न तथा पूर्णचन्द्रायां विशुद्धायामपि निशि, ततस्तन्निशोपमितस्याविरतसम्यग्दृष्टिधर्मस्य देवगुरुभक्तिप्रभृतिकिश्चिक्रियाप्रवर्तकत्वेऽपि विरत्यादिविशेषक्रियानुष्ठानप्रवृ-15 त्तिहेतुत्वं न स्यात्, निद्रादिसमविषयकषायादिप्रमादनिरोधकत्वं चेति । एतस्माद्धर्माच्च जघन्याराधितादपि मनुष्यस्तिर्यग वा सौधर्मादिसुरलोकगतिमेव लभते । यदागमः-"सम्मत्तम्मि उ लद्धे, विमाणवजं नबंधए आउं" इति ६।सजलदमालं दिनमिव विशुद्धतरोद्योतभृद् देशविरतश्राद्धधर्मः । यतस्तत्र प्राप्ते देशविरत्यादिविशेषक्रियानुष्ठानप्रवृत्तिः स्यात्, परं का यथा सजलदे दिने जनानां वपुर्जाड्योद्भवादिना विशिष्टतरक्रियानुष्ठानोद्यमो न स्यात्,तथैतस्मिन् धर्मे सति घनपटलोपम-10 प्रत्याख्यानावरणकषायोदयजजाड्यादिना जीवानां सर्वविरतिरूपविशिष्टतरक्रियानुष्ठानवीर्य नोल्लसति, दुर्दिनसमं धनकुटुम्बप्रतिबन्धादिरूपं किञ्चित्तमश्च नापसरतीति । एतस्मादुत्कर्षतो द्वादशदेवलोकगतिरिति ७ । जलदरहितदिनवनिर्म
0000000000000000
Jain Education
For Private & Personel Use Only
jainelibrary.org