SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १८५ ॥ एतेषु चाष्टभङ्गेषु प्रतिभङ्गं जीवमतीनां तरतमभावस्तद्द्दष्टान्ताश्च यथार्हमवतारणीयाः सुधीभिरिति । अथैतेष्वेवाष्टसु भङ्गेषु धर्मो भाव्यते, तथाहि - प्रथमनिशावद् घोरतमोमयः कश्चिद् धर्मः, यथा नास्तिकानाम् । तस्य गम्यागम्य भक्ष्याॐ भक्ष्यपेयापेयाद्यखिलविवेकनिर्मुक्तत्वाद्, लोकविरुद्धतत्तत्कुकर्मप्रवृत्तिमयत्वात्, तत एव दुर्गतिपातनिबन्धनत्वाच्च १ । द्वितीयनिशावदनतिघोरतमोमयो वेदविहितो धर्मः । तत्र च यद्यपि क्वचित् किञ्चिद् दयादानसत्यशीलाद्यप्युक्तं, परं यागादिच्छल पशुवधमद्यामिषादिभक्षणपरस्त्रीपरिभोगाद्यनुज्ञाप्रणयनेन तत् सर्वं परिमृष्टं, कज्जलकूर्चकेन चित्रमिव तेन तस्य © केवल तमोमयत्वमपि सङ्गतमिति २ । तृतीयनिशावदल्पोद्योतो बौद्धादिधर्मः, तत्र बौद्धधर्मे पात्रपतितस्यामिषादेरप्यपरित्यागः "मृद्धी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः " ॥ १ ॥ इत्याद्युक्तेः सर्वप्रकारैः स्वदेहसुखीकरणादेव च मोक्षः इत्याद्यतुच्छ मिथ्यात्वान्धतमसप्रसारणेन स्वाश्रितानां सम्यग् जीवधर्माधर्मादिपदार्थदर्शनविलोपकत्वाद् भूरितमतमोमयत्वं किञ्चिद् वाहीकब्रह्माद्यनुष्ठानरूपाल्पोद्योतवत्त्वादल्पोद्योतत्वं चेति । एवमन्येष्वपि तथाविधधर्मेषु भावनीयम् । एतद्भङ्गधर्मतश्चोत्कर्षतोऽप्यल्पर्द्धिव्यन्तरादिगतिरेव सम्भाव्यते इति ३ । तुर्यनिशावत् किश्चिदधिको द्योतस्तापसादिधर्मः । तत्र तापसधर्मस्यानन्तजीव कायकन्दमूलशेवालाद्यशनागलितजलस्नानवृक्षादि से चनाशोधितेन्धनज्वालनाद्यारम्भधर्मबुद्धि हेतु कप्रवर्तनादिप्रभूतमिथ्यात्वन्त| मसविजृम्भणेन स्वाश्रितानां सम्यग्जीवाजीवधर्मादिपदार्थदर्शनपरिमोषित्वाद् भूरितमोमयत्वं, पश्चेन्द्रियकियद्दम बहुतपःक- ॥ १८५ ॥ ष्टाद्यनुष्ठानरूपाधिको द्योतवत्त्वाद्वौद्ध धर्मतोऽधिकोद्योतत्वं च । एवमन्येष्वपि तथाविधधर्मेषु भावनीयम् । तापस Jain Education In 9600 For Private & Personal Use Only 99500 उपदेशर तरंग ६ ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy