SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000 शुक्रादिग्रहोपेतनिशावत् केषाञ्चिन्मतिश्चाधिकतरोयोता, मिथ्यात्वाद्यन्धकारभरवत्त्वेऽपि प्राच्यभङ्गाधिकविषयवै राग्यादिप्रकाशवत्त्वात् , यथा भर्तृहरादीनाम् ४ । हीनचन्द्रनिशावत् केषाश्चिन्मतिश्चाधिकतरोद्योता, प्राक्तनभङ्गाधिकभवनिर्वेदकदभिनिवेशाद्यभावपरोपकारशुभ. परिणामप्रकाशत्वात्, अनतिबहुलमिथ्यात्वतमस्कत्वाच्च, पूरणतामल्यादिऋषिवत् ५। SI पूर्णचन्द्रनिशावत् केषाञ्चिन्मतिश्च महोद्योता सर्वतो मिथ्यात्वादितिमिरप्रणाशित्वेन सम्यग्जिनधर्मरूपशुद्धमार्गोद्योत-1 ला तत्प्रवर्तनादिनिबन्धनत्वेन च, यथाऽनार्यदेशेष्वपि जिनधर्मप्रवर्तकस्य षट्त्रिंशत्सहस्रनव्यप्रासादबहुजीर्णोद्धारतीर्थयात्रारथयात्रादिपुण्यकृत्यपरस्य सम्प्रतिभूपस्य, अष्टादशादिदेशसर्वजीवामारिप्रवर्तनाद्यसामान्यपुण्यकर्मपरायणश्रीकुमारपालभूपाल-/ श्रीवस्तुपालमन्त्र्यादीनां च । परं दिनोद्योता यथा पूर्णचन्द्रनिशोद्योतो मन्दः तथैतद्भङ्गनराणा क्षायोपशमिकस-1 म्यक्त्वभृत्त्वेन मतिप्रकाशो नातिनिर्मलः ६ । ___ जलदव्याप्ताम्बरदिनवच्च केषाञ्चिन्मतिः पूर्णचन्द्रनिशातो निर्मलोद्योता, क्षायिकसम्यग्दृष्टितया सर्वथा मिथ्यात्वा-1 दितिमिरनिरासित्वात् । परं प्राग्बद्धायुष्कत्वादिना विषयकषायादिप्रमादजलदपटलगडुला यथा श्रीश्रेणिकादीनाम् ७॥ निर्मलदिनवत् केषाञ्चिन्मतिः पुनर्निर्मलतमोयोता, मिथ्यात्वादितमःप्रणाशित्वप्रमादजलदपटलनिर्मुक्तत्वशुद्धपुण्यमार्गप्रकाशकत्वतत्प्रवृत्तिपरत्वादिभिः,यथा श्रीअभयकुमारमन्त्रिणः षड्वार्षिकश्रीवीर (पार्श्व ) प्रताजितातिमुक्तकश्रीवन-का स्वाम्यादीनां वा । तेषां यद्यपि सम्यक्त्वं क्षायिक न, तथापि तत्प्रतिरूपत्वेन तस्यातिनिर्मलमतिहेतुत्वं ज्ञेयम् । Jain Education Inted ! For Private Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy