SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000 शुक्रादिग्रहोपेतनिशावत् केषाञ्चिन्मतिश्चाधिकतरोयोता, मिथ्यात्वाद्यन्धकारभरवत्त्वेऽपि प्राच्यभङ्गाधिकविषयवै राग्यादिप्रकाशवत्त्वात् , यथा भर्तृहरादीनाम् ४ । हीनचन्द्रनिशावत् केषाश्चिन्मतिश्चाधिकतरोद्योता, प्राक्तनभङ्गाधिकभवनिर्वेदकदभिनिवेशाद्यभावपरोपकारशुभ. परिणामप्रकाशत्वात्, अनतिबहुलमिथ्यात्वतमस्कत्वाच्च, पूरणतामल्यादिऋषिवत् ५। SI पूर्णचन्द्रनिशावत् केषाञ्चिन्मतिश्च महोद्योता सर्वतो मिथ्यात्वादितिमिरप्रणाशित्वेन सम्यग्जिनधर्मरूपशुद्धमार्गोद्योत-1 ला तत्प्रवर्तनादिनिबन्धनत्वेन च, यथाऽनार्यदेशेष्वपि जिनधर्मप्रवर्तकस्य षट्त्रिंशत्सहस्रनव्यप्रासादबहुजीर्णोद्धारतीर्थयात्रारथयात्रादिपुण्यकृत्यपरस्य सम्प्रतिभूपस्य, अष्टादशादिदेशसर्वजीवामारिप्रवर्तनाद्यसामान्यपुण्यकर्मपरायणश्रीकुमारपालभूपाल-/ श्रीवस्तुपालमन्त्र्यादीनां च । परं दिनोद्योता यथा पूर्णचन्द्रनिशोद्योतो मन्दः तथैतद्भङ्गनराणा क्षायोपशमिकस-1 म्यक्त्वभृत्त्वेन मतिप्रकाशो नातिनिर्मलः ६ । ___ जलदव्याप्ताम्बरदिनवच्च केषाञ्चिन्मतिः पूर्णचन्द्रनिशातो निर्मलोद्योता, क्षायिकसम्यग्दृष्टितया सर्वथा मिथ्यात्वा-1 दितिमिरनिरासित्वात् । परं प्राग्बद्धायुष्कत्वादिना विषयकषायादिप्रमादजलदपटलगडुला यथा श्रीश्रेणिकादीनाम् ७॥ निर्मलदिनवत् केषाञ्चिन्मतिः पुनर्निर्मलतमोयोता, मिथ्यात्वादितमःप्रणाशित्वप्रमादजलदपटलनिर्मुक्तत्वशुद्धपुण्यमार्गप्रकाशकत्वतत्प्रवृत्तिपरत्वादिभिः,यथा श्रीअभयकुमारमन्त्रिणः षड्वार्षिकश्रीवीर (पार्श्व ) प्रताजितातिमुक्तकश्रीवन-का स्वाम्यादीनां वा । तेषां यद्यपि सम्यक्त्वं क्षायिक न, तथापि तत्प्रतिरूपत्वेन तस्यातिनिर्मलमतिहेतुत्वं ज्ञेयम् । Jain Education Inted ! For Private Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy