SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000 ध्र्वदेहिककार्याणि विधाय तद् गृहीत्वा गङ्गां प्रति प्रस्थितः, यमुनातटे प्राम,दृष्टश्च तत्र तिष्ठन्त्या षण्मास्यन्ते तेन छात्रेण समं विरक्तीभूतया तयैव भार्यया सः. जातानुतापया च तया प्रकाशितं तस्यात्मस्वरूपं याथातथ्येन, पाठकः प्राह, का अनुहरसे तां, किन्तु एतानि तदस्थीनि, विविधाभिज्ञानकथनेऽपि एतानि तदस्थीनीत्येव वदत् न प्रतिपाद्यत्ते. ततो दर्शितस्तया स छात्रः, दृष्टेऽपि तस्मिन्नाह-एष तादृशः प्रतिभाति, परमेतानि तदस्थीनि. तसः सा खिन्ना तमत्यजत् इति. एवंविधस्य मूढस्य सुगुरूपदेशोऽपि न कस्मैचित्कलाय. तदुक्तम्-उदितौ चन्द्रादित्यौ, प्रज्वलिता दीपकोटिरमलाऽपि । नोपकरोति यथान्धे, तथोपदेशस्तमोन्धानाम् ॥१॥ पूर्व व्युग्राहितस्तु वस्त्ववस्तुपरीक्षाक्षमोऽपि, तादृमव्युगाहणावशद्वैपरीत्याभिनिविष्टबुद्धिः गोपालकवत्. तथाहिराजपुरे गोचारणोपार्जितधन एको गोपालः, तन्मित्रं स्वर्णकारः, स च ज्ञापितः स्वधनोपार्जनं गोपालेन, अवोचच्च स्वर्ण कारयति.गोपालः प्राह त्वमेव कुरु, स्वर्णकारस्त्वाह, नाहं करिये, अन्येन कारय. त्वमेव कुरु किं बहुनेल्यादिवादिनं गोपालं पुनराह नाडिंधमः,वयस्य ! प्रीतिरावयोश्चिरार्जिता, प्रीतिच्छेदकारकश्च लोकः, यतः-परक्सणहरिसिअमणा, मुहमहुरा पिडओ भसणसीला । बहवे उवहासपरा, कलिकाले दुजणसहावा ॥१॥ महभेदस्य कारणमर्थः, यतः यदीच्छेद्धिपुलांप्रीति, तत्र त्रीणि निवारयेत् । विवादमर्थसंबन्धं, परोक्षे दारदर्शनम् ॥१॥ इतिवचनात् , तन्मे तद्विषये मा वादीः, एतामपि भावप्रीतिमवैहि. अन्येन कारय, नवरमहं परीक्षयिष्यामीति. गोपालः-नै भवेत् , किमहं त्वञ्चित्तं न वेद्मि ? स्वर्णकार:वेस्सि त्वं, किन्तु विषमो लोक इति. गोपाल:-किमस्माकं लोकेन, स्वर्णकार:-तथापि लोकस्वभावं दर्शयामि ते. ततः। 000000000000000000000 Jain Education a l For Private & Personel Use Only Jaw.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy