SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ - स्वैरकल्पितकदुपदेशैश्च धर्मादू बंशयन्ति।ज्योतिषचिकित्सादिवलावर्जितनृपमन्व्यादिभ्यो लब्धमानत्वेन सबलाश्च विशिष्य, परे तु तीथिका वौद्धादयोऽप्येवमेव बहुधा । अत्र चानुभवसिद्धाः प्राक्तनाश्चार्यखपटक्षुलश्रीसुव्रतप्रतिबोधिततुरगप्राग्भ ववणिग्व्युग्राहकतीर्थिकादयो दृष्टान्ता बहवः । सबलेति विशेषणमग्रेऽपि योज्यम् ७ ॥ का मंति त्ति, मन्त्रिगो व्यापारिणः, उपलक्षणादन्येऽपि राजनियोगिनगरश्रेष्ठिपट्टकिलब्याजवणिक्स्वामिराजमान्यपिशुनवराणिकपुत्रसम्बन्धिश्रेष्ठि सेनापतिम्लेच्छादयश्च राजादिभयदर्शनादिकराधिक्यकरणतन्मोचनादिना द्रव्यप्रदानादिना वाs धर्माणः सबलाश्च बहून् धर्माद् भ्रंशयन्ति, यथा सम्भिन्नमतिमच्यादयो महाबलादीनधर्मे प्रावीवृतन , भ्रातृदीकक्षानन्तरसाधुद्विष्टीभूतपण्डितधनपालादयश्च बहून् जनान् , सम्प्रत्यनुभवसिद्धाश्च बहवो दृष्टान्ताः ८।। HI निव त्ति, नृपा अप्येवमेव, यथा प्रदेशिराजा प्रतिबोधात् पूर्व स्वदेशे यत्यागमननिषेधेन बहूनां धर्मविघ्नकरोऽभूत् , मालवीयसिंहोदरनृपो वज्रकर्णसामन्तस्य धर्मभ्रंशमचिकीपीत् , म्लेच्छमिथ्यात्विनृपादयश्च सम्प्रत्यनुभूयमाना एवेति ९॥ नायर त्ति, स्ववासस्थाननगरवासिनो लोका नागराः, ते च यद्यधर्माणो भवन्ति, तदा तन्मध्ये धर्मनिर्वाहोऽपि दुःसाध एव, तैः स्थाने स्थाने उपहासप्रद्वेषकरणादिना धर्मे मनोभङ्गकरणात् । तैः सह कुतीर्थादौ गमने मिथ्यात्वसम्भवाद-10 संगमने च प्रद्वेषवैरादिसम्भवेनेहलोकनिर्वाहोऽपि दुःसाधः स्यात्, किं पुनः परलोकार्थधर्मनिर्वाहः ?, अनुभवसिद्धं चैत-21 सर्वेषाम् । कस्मिंश्चिद्रामे कोऽप्येक एव श्रावकोऽभवत् । सर्वग्रामजनैश्च सरसि कारिते भृते च जलैस्तत्र सर्वसमुदायेन ®®®®®® Jain Education For Private Personel Use Only rainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy