________________
मुनिसुन्दर सू० वि०
उपदेशर० तरंग २
Ja
॥१७४||
टी000000000
यानि जीवानाम् । एतद्भयस्वरूपपरिज्ञानपरिहारादिना स्वस्य जीवानांरक्षा सुखं च भवतीति गम्यम् । परमार्थेति पदग्रहणाद्वैरिव्याघ्रादीनां भयहेतुत्वं बहिर्वृत्त्यैव अनैकान्तिकं च । केषाश्चिद्देशभूषणकुलभूषणसुदर्शनगजसुकुमालसुकोशलादीनामिव वैरिव्याघ्रादिभिः कृतोपसर्गसहनेन तेषामपि केवलज्ञानमोक्षदानानन्तसुखावाप्तिहेतूभवनेन महोत्सवहेतूभवनादित्यादि सूचितमिति पिण्डार्थः । अथ प्रत्येक व्याख्यानेन भावना,तथाहि-'पिय'त्ति यथा पिता जिनधर्मरहितः पुत्रस्य स्नेहादिना धर्म निषेधेन भयहेतुर्भवति, स्वरूपज्ञानपरिहारादिना च भयहेतुः, यथा भृगुः पुरोहितः स्नेहात् पुत्रद्वयं ग्रामटके निक्षिप्य बोधेरलाभार्थ साधुभ्यो भापयते स्म, स्वरूपपरिज्ञाने च ताभ्यामात्मनो भृगोश्च प्रतिबोधेन रक्षा कृता, पद्मरथनृपः |शिवकुमारस्य व्रतविघ्नकृदभूत् , तेन सागरचन्द्रस्तद्भवे मुक्तिगमनेऽपि शिवकुमारस्य गर्भवासाद्यभूत् , विष्णुदत्तश्रेष्ठी मिथ्यादृष्टिः पुत्रस्य देशविरतिधर्मविघ्नं कुर्वन्नपि तेन परिहतः पशुर्जज्ञे, पुत्रश्च महान् सुरः १ । प्रसङ्गाबाह्यभयहेतवोऽपि कनककेतुनृपादयः पुत्राणां व्यङ्गनादिना भयान्यभूवन इत्यपि ज्ञेयम् , एवमन्यत्रापि प्रसङ्गगता व्याख्या ज्ञेया १। | मायत्ति, माता च स्नेहादिना धर्मनिषेधेन भयहेतुर्भवति, यथा चन्द्रमती यशोधरस्य, परिहता तु मोक्षाय, यथा
सुनन्दा श्रीवनस्वामिनः, ऐहिकानयापि च स्याद्यथा चूलनी ब्रह्मदत्तस्य २ । | अवच्चत्ति, अपत्यान्यपि स्नेहादेर्धर्मनिषेधेन भयनिमित्तानि जीवस्य, यथा जीवयशाः पुत्री जरासङ्घस्य मरणाय महा| युद्धारम्भेण नरकाय चासीत् । पुत्रस्नेहात् प्रसन्नचन्द्रराजर्षिर्दुर्मुखमुखात् किश्चित् पुत्रपराभवं श्रुत्वा मनसैव महायुद्धा. रम्भादिना सप्तमनरकमुपार्जयत् , तत्परिहारादिना च मोक्षमन्तर्मुहूर्तादिना केवलज्ञानमप्यवाप । ऐहिकानयापि पुत्रा
सरी 0®®®®®®
॥॥१७४॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org