________________
999990000200099909000
प्रायस्तृतीयादिभवेषु सप्तादिभवैर्वा सिध्यन्ति, आनन्दादिदशश्रावकभद्रनन्दिकुमारश्रीवीरप्रतिबोधितधन्यमेघादिवत् ,
श्रीचन्द्रप्रभश्रीमुनिसुव्रतस्वामिप्रमुखप्राग्भवादिवद् वा ४। का रसलोहत्ति-यथा सिद्धरसयोगाल्लोहं सुवीभवति, तच्च कुश्यादिरूपं सिद्धरसभावनोद्भवां सुवर्णतां कटककुण्डलमुकुटकलशादिपरिणामान्तरेष्वपि न मुञ्चति, तथा केचिज्जीवाः सम्यग्देशविरत्यादिभावनां भवान्तरेष्वपि न मुश्चन्ति, ते चासन्नतमसिद्धिका एव भवन्ति । ते च यदि क्षायिकसम्यक्त्वधारिणो बद्धायुषस्तदाऽवश्यं त्रिभिश्चतुर्भिर्वा देवनरभवः सिध्यन्ति, तदुक्तम्-तइअचउत्थे तंमि व, भवंमि सिज्झन्ति दंसणे खीणे । जं देवनरयऽसं-14 खाउ ३, चरमदेहेसु ते हुन्ति ॥ १॥ क्षीणसप्तकस्तृतीये चतुर्थे तस्मिन् वा भवे मोक्षं याति । तथाहि-बद्धायुः क्षीण
सप्तको देवगतिं नरकगति वा गत्वा तृतीयभवे सिध्यति । यदि तिर्यक्षु मनुष्येषूत्पद्यते तदाऽसंख्येयवर्षायुष्केष्वेव, ततो 51 देवेषु, ततश्युत्वा नरभवे सिध्यत्येव चतुर्थे, अबद्धायुस्तु तस्मिन्नेव भवे श्रेणिं संपूर्णीकृत्य सिध्यतीति पञ्चसङ्घहवृत्तौ
सप्ततिकावृत्तौ च । आसन्नतमसिद्धिकत्वं च क्षायिकसम्यक्त्ववतामुत्कर्षतः किश्चिदधिकत्रयस्त्रिंशत्सागरमध्य एव सिद्धिभ
वनात् तदुक्तम्-अंतमुहुत्तोवसमो, छावलि सासाण वेयगो समओ। साहिअतित्तीसायर, खइओ दुगुणो खओवसमो ॥१॥ साक्षायोपशमिकसम्यक्त्ववन्तोऽपि नरभवे देशविरतेः सर्वविरतेर्वा प्रतिपत्तारो रससुवर्णीभूतलोहदृष्टान्तेनाप्रतिपतितसम्यक्त्वा निश्चयेन सप्तमे भवे सिध्यन्ति, देवनरेष्वेव चोत्पद्यन्ते क्षायोपशमिकसम्यक्त्वत्य किञ्चिदधिकवटूषष्टिसागराण्येवावस्थानात् । तत्पूर्तिश्चैवम्-"दो वारे विजयाइसु, गयस्स तिन्नञ्चुए अहव ताई । अइरेगं नरभविश्र, नाणाजीवाण सबद्धा
0000000000000000000000
-
Jain Education
For Private Personel Use Only
jainelibrary.org
-