SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Jain Education 999999 दयादिना कियता कालेन स्वभावात् कुतीर्थ्यादिकुसंसर्गादिना वा पुनर्धर्मपरिणामादि प्रतिपन्नविरत्याद्यपि च परित्यजन्ति । एते च प्रायो दूरभव्या अध्यर्धपुद्गलपरावर्तमध्ये सिध्यन्ति, श्रीगौतमप्रतिबोधितहालिकादिवत् । लोहं च तदेव पुनः पुनरग्नौ क्षेपणकर्षणादिना पुनः पुनरनलपरिणतिग्रहणमोक्षादि कुरुते यावच्छस्त्रादीष्टकार्यनिष्पत्तिः, एतदाश्रित्य सिद्धर्षिप्रमुखा अदूरभव्या अपि स्वयं दृष्टान्ता अभ्यूह्याः २ । पयजलेति-पयो दुग्धं जलं चैकत्र भाजने क्षिप्तं मिथः संवेधेन तथा मिलति यथा पार्थक्यं नोपलभ्यते, न च केनापि पृथक्कर्तुं शक्यते, नवा स्वभावात् कालेनापि तत् पृथग्भवति; किन्तु यथा मिलितं यावज्जीवमपि तिष्ठति, केवलं प्रकारद्वयेन भेदः संभवति, राजहंसच सन्निपाताद् दुग्धं विशरारुभूय पृथग्भवति, तच्च स पिवति जलं च स्वरूपेण तिष्ठति, ॐ तस्य हि चञ्चुर्भृशमाम्लगुणा भवति तत्सन्नियोगे च दुग्धस्य विशरास्ते त्यातप्रवादः, अयं चाद्यस्तयोरनुवेधनाशे प्रकारः, तथाऽग्निना कथने जलं विलीयते पयञ्च तिष्ठतीति द्वितीयः । तथा केषुविज्जीवेषु सद्गुरूपदेशश्रवणादिना सम्यग्दर्शनश्रुतदेश विरति सर्वविरत्यादिरूपधर्मस्य परिणतिस्तथा स्याद् यथा तयोरैक्यमेव भवति, तेषां हि सर्वमेवानुष्ठानादि भावरूपमेव भवति, तदैक्यं च विघ्नासंभवे यावज्जीवमेत्र निर्वहते इति, विघ्नापाते चोभाभ्यां प्रकाराभ्यां धर्मपरिणामनाशात्तद् त्रिलीयते । धर्मपरिणामनाशश्च केषाञ्चित् कुसंसर्गाद् भवति, यथाऽश्वग्रीवस्य प्रथमप्रतिवासुदेवस्य नास्तिकपुरोधसः संसगद्दर्शनमालिन्यं, मिथ्यात्विजननीसंसर्गादिना यशोधरनृपस्य चारित्रपरिणामव्यपगमः, कुलवालकश्री विजयनृपाग्रनिमित्तभाषकपश्चात्कृतादीनां च स्त्रीसंसर्गादिना, यथा वा बौद्धसंसर्गात् सुराष्ट्राश्रावकस्य यक्षत्वे सम्यक्त्वव्यपगमः, केषाञ्चि For Private & Personal Use Only 33000 3000 w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy