________________
मुनिसुन्दर एकस्मिन् जीवपात्रे सदसदुपयोगरूपं मनः प्रोक्तरूपो धर्मश्च क्षिप्यते, तत्र च तद् द्वयं विभाव्यते, न च परस्परं संसज्यते,61 उपदेशरः सू० वि०ळा मिथो भावनासंवेधाभावेन पृथगेव वर्तनात् , यतस्तेषां बहुश्रुतपाठेऽपि जीवस्य मनसो वा श्रुतार्थापरिणत्या तत्त्वश्र-10 तरंग १ ॥१७१॥
द्धानरूपसम्यक्त्वपरिणामभवभयसम्यगनुष्ठानरुचिसंयमबीर्यादि नोत्पद्यते, यदापि ते श्रुतादि पठन्ति पाठयन्ति उपदिशन्ति च, धर्मानुष्ठानादि कुर्वते कारयन्ति च, तदापि तेषां जीवः कर्मादिकालुष्यकलुषो मनश्च दुर्विकल्पभवतृष्णाकालुव्यकलुषं च भवति । ते च जीवा एकादशाङ्गापूर्वगतश्रुताध्ययनच्छात्रपञ्चशत्यध्यापनपरागारमर्दकाचार्योदायिनृपमारकश्रीनेमिवन्दनादिकृत्पालकश्रीवीरव्याख्याननित्यनत्रणपरायणकालसौकरिककपिलादिवत् प्रायोऽभव्या भवन्ति, श्रीवीरपर्युपातिलब्धतेजोलेश्यादिशक्तिकगोशालकश्रीकृष्णसार्थसाध्वष्टादशसहस्रीवन्दन कदायिवीरकादिवद् दूरभव्याशा वा भवन्ति इति १। | लोहानलेति-यथा लोहमनलश्च ध्मानकाले मिलति, अनलेन च लोहं मिथोऽनुवेधाद्भाव्यते । भावनालक्षणं च लोहद्रवत्वं क्षणमात्राग्निवर्णीष्ण्यादिपरिणतिश्च भाव्यते । तदा च परिकर्मणावशान्नरनार्यादिरूपतया च परिणमयितुं शक्यते, परं स्वल्पेनैव कालेन क्षणमात्रादिना जलपङ्कादिसंसर्गाद्वा पुनरनलपरिणतिभावनां मुञ्चति, काठिन्यकृष्णवर्णपरिकर्मणानहतादि स्वस्वभावं च गृह्णाति । तथा केचिजीवाः प्राग्लब्धधर्माणोऽपि सद्गुरूपदेशश्रवणसंवेगहेतुपुण्यपापशाफलेष्टानिष्टसंयोगस्वपरगतसुखदुःखादिविभावनादिभिजैनधर्मरसेन भाव्यन्ते, मिथ्यात्वारम्भभवतृष्णातदनुरूपासदनु
ठानादि दुर्वर्णकदाग्रहदुर्बोधतादिकाठिन्यं च मुञ्चन्ति, सम्यक्त्वं देशविरतिं च केचित् प्रतिपद्यन्ते, परं मोहनीयकर्मो
அருமராடு இருவரும்
॥१७१॥
Jain Education in
For Private Personal use only