________________
उपदेशर तरंग ३ र
मुनिसुन्दरका
॥ अथ तृतीयस्तरङ्गः ॥ सू० वि०
योग्या एव धर्माधिकारिण इत्युक्तं, योग्यस्वरूपं चाऽयोग्यस्वरूपनिरूपणे सुज्ञानमिति प्रथमत उपदेशाऽयोग्यानाहरत्तो दुट्ठो मूढो, पुत्विं वुग्गाहिओ अ चत्तारि । उवएसस्स अणरिह, अहवाइसपाहि बुझंति ॥१॥
रक्तो रागी, यो हि यत्र क्वचिद्रक्तः स तदीयान् दोषानपि गुणतयैव पश्यति तदुक्तं-जं जस्स पिअं, तं तस्स सुंदरं रूवगुणविमुक्कंपि । मुत्तूण रयणहारं, हरेण सप्पो को कं ॥१॥ नतु गुणदोषविवेकपुरस्सरं यथावस्थं वस्तुस्वरूपं तलवरवत्तथाहि-मगधेषु कचित्सन्निवेशे नन्दनो नाम तलवरः, तस्य प्रथमश्रीद्वितीयश्रीनाम्न्यौ पल्यौ. द्वितीयश्रियां रक्तः स तद्गृह एव तिष्ठति. अन्यदाऽगमत् प्रथमश्रिया गृहं, रचितश्च तयोचितो मजनाद्युपचारः, प्रगुणितं च नानाव्यञ्जनगुणोपेतं भोजनं, परं सुन्दरमपिन बहुमतं किमपि तच्चित्ते, उक्तवांश्च-किं भुज्यते द्वितीयश्रिया यन्न राद्धं, तदानय किमपि तद्वेश्मनः शाकम्. ततः प्रथमश्रीः सपत्नी शाकमयाचिष्ट, तथोक्तं-नाद्य राद्धं कुतः शाकम् ? आगत्योक्तं तलवराय, पुनरुक्तं तेन, किंचिदुद्धरिताद्यपि मार्गय, पुनर्गत्वाऽमार्गयत्प्रथमश्रीः, कर्मकरेभ्यो दत्तमित्युद्धरितमपि नास्तीति प्रत्युवाच सपत्नी, तदपि व्यज्ञपयत् पत्ये, यत्किंचित्काञ्जिकप्रायमप्यानय तन्निलयादित्यलपच्च सः, ततः कपायिता सा गत्वा बहिः सद्यो व्युत्सृष्टं वत्सगोमयं तुवरीचणकमिश्रं गृहीत्वा किञ्चित्संस्कृत्य तद्गृहादानीतमिति वदन्त्युपनिन्ये. तलवरस्तुष्टो भुञ्जानोऽभाणीत् , अहो ! मिष्टं, अहो! अहो! रसविशेषः, अहो! सुस्त्रीगुण इति.एष स्त्रीरतोयथा गुणदोषविवेकपराङ्मुखः,
For Private & Personal Use Only
0000000000000000000000
00000000000000000
Jan Education