SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १६७ ॥ Jain Education In 300 व्यक्तीकरणाय मन्दमतीनां सुखावबोधाय च यन्त्रकन्यासः क्रियते । तथाहि - एतेषु भङ्गेषु प्रथमोऽन्त्यश्चेति द्वौ भङ्गौ प्रागू भावितौ तदनुसारेण शेषभङ्गेष्वपि भावना कार्या । नवरं "अस्नेहाः अगुल्याः" इत्यत्र सर्वथा स्नेहगुल्ययोरभावे मोदकासिद्धेस्तदल्पतरत्वं ज्ञेयम्, अनुदरा कन्येत्यादिवत् । घृतखण्डव्यतिरेकेण तैलसर्पपतैलाद्यशुभस्नेहगुडादिगुल्याव्यत्वं वा यथार्ह भाव्यं, शेषं व्यक्तम् । एवं दार्शन्तिकेऽप्यल्पतरधनाल्पतरधर्मयोः क्वचित् सम्भवेऽपि तत्र निर्धनत्वं निर्धर्मत्वं चोच्यमानं सङ्गतमेवेति । तथा यद्वत् स्नेहगुल्यरहितेषु मोदकेषु वेगरस्यासम्भव एव तथा धनधर्मरहितेषु नरेषु विवेकस्याप्यसम्भव एवेति । तथा यद्वत् तैलादिस्नेह गुडादिगुल्याढ्येष्वपि मोदकेषु वेगरस्यासम्भव एव, एवं तैलादिस्नेहोपमधन गुडादिगुल्योपमधर्मवत्स्वपि विवेकस्यासम्भव एवेति । किञ्च -- तैलादिस्नेहान्येषु मोदकेषु यथा गुल्यं खण्डादिप© रिहारेण किञ्चिद् गुडाद्येव सम्भवति, तथा तैलादिस्नेहोपमधनाढ्येषु प्रायो धर्मोऽपि गुडादिसम एव सम्भवी यदि भवति । अथात्रापि दृष्टान्तदार्शन्तिकयोजना, तथाहि —यथा तैलादिस्नेहपरिकर्मिता मोदका जने निन्द्या भवन्तीति पशुद्धिकारूपे उत्तमदले तैलादेर्योगात्तु विशिष्य निन्द्यत्वं प्रामुवन्ति, प्रायेण च ते मुद्गादिदलबद्धा एव स्युः, ते चाssस्वादेऽपि कटुका ॐ एव, तैलस्य तथाप्रकृतेः परिणामेऽपि पित्तादिविकाराय, तदुक्तम् - तिलस्तैलं कुलत्थाश्च, वलाः कालिङ्गमूलकौ । माहिषं दधि वृन्ताक - मष्टौ कुष्ठस्य हेतवः ॥ १ ॥ तेषु च गुल्यं स्वल्पसम्भवं यदि च स्यात्तदा गुडाद्येव सम्भवति, न च तत्तैलादि6) योगोत्थं पित्तादिविकारमपि शमयितुं क्षमतां धत्ते, तादृशेषु वेगरासम्भवस्तु प्राग्भावित एवेति । तथा तैलसमं परद्रोहाद्यन्यायार्जितं धनं तदाढ्य (ढ्या ) नरा जनेषु प्रायो निन्द्यतां लभन्ते, उत्तमकुलोद्भवाः पुनस्तादृग्धनभाजो विशिष्य निन्द्याः स्युः । अन्यायार्जितं धनमपि च भुज्यमानं तेषां न तथा © 196 For Private & Personal Use Only उपदेशर तरंग ९ ॥ १६७ ॥ jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy