________________
रसोल्लासप्रदं, तद्धनस्य तथास्वाभाव्यात् , प्रत्युत दर्शनस्पर्शनादिभिरपि तत्तदनर्थमयकुवुद्धिप्रदं, भ्रातृदयोपार्जितधननवलकवत् , नृपदण्डचौरवह्निप्रभृत्युपद्रवबहुलतया तत्तथाविधदुःखप्रदं चेहायशुद्धव्यवहारावस्थायां हेलाश्रेष्ठिप्रभृतीनामिव, तथाविधधनवत्सु च धर्मः प्रायो दुःसम्भवः, वलभीभञ्जकरङ्कश्रेष्ठयादिष्विव, यदि च केषुचित् कश्चित् सम्भवेत्, तदापि प्राय ऐहिकमानमहत्त्वसुखसन्तानादिफलाशंसादिभिः कलुषित एव, न च तेन तथाविधेन धर्मेण धनार्जनादावन्यायादिकुकर्मजनितं यदधं तदपि निरसितुं पार्यते, दूरे शेषदुरितवार्तापि, तदुक्तम्-"हरिऊण य परदचं, पूअं जो कुणइ जिणवरिंदाणं । दहिऊण चंदणतरुं, करेइ इंगालवाणिजं ॥१॥' तादृग्धनजनिताहारपिण्डपुष्टवपुषां पुनस्तेषां विवेको दुःसम्भव एव, यदागमः “ववहारसुद्धी धम्मरस, मूलं सबन्नु भासए । बवहारेणं तु सुद्धेणं, अत्थसुद्धीजओ भवे ॥१॥ सुद्धेणं चेव अत्थेणं, आहारो होइ सुद्धओ। आहारेणं तु सुद्धेणं, देहसुद्धी जओ भवे ॥२॥ सुद्धेणं चेव देहेणं, धम्मजुग्गो अ जायए । जं जं कुणइ किच्चं तु, तं तं से सहलं भवे ॥३॥” इति । अतो व्यवहारशुद्धयर्जितधनभृतामेव विवेकसम्भव इति । दृष्टान्ता यथास्थानं स्वयं योज्याः। धननवलकदृष्टान्तस्त्वयम्-उज्जयिन्यां द्वौ वणिक्पुत्रौ शिवशिवदत्ताभिधानौ दरिद्रावभूताम् , तावन्यदा धनार्जनाय सुराष्ट्रा (राष्ट्र) मण्डले प्राप्ती, धीवरादीनां सूत्रार्पणादिना बहु |धनमर्जयतः स्म, तद्धनं नवलके कृत्वा कव्यां बद्धं, वारकेण वहन्तौ स्वपुराभिमुखौ चलितो, ततो यदा तद्धनं यः कट्यां वनाति, तदा तस्यापरभ्रातृवधेच्छा जायते, क्रमात् प्राप्तौ पुर्या बहिः, तदा शिवेन स्वपार्श्वस्थं तद्धनं दुष्टपरिणामहेतुरितिकृत्वा नद्यां इदे क्षिप्तं, कथितं च भ्रात्रे, ततो जातशुद्धमनःपरिणामौ निर्धनौ प्राप्ती गृहे, स च नवलको मत्स्येन
0000000000000000000000
Jain Education id
For Private
Personal Use Only