________________
00
ॐ0
मुनिसुन्दर सू०वि०
उपदेशर तरंग ८
॥१६४।।
00000000000000000004
अथ च मार्तिकाः कलशा अमृतेन परिपूर्णास्ते पूर्णकलशेतिनाम्ना गीयन्ते, सर्वेषु माङ्गल्येषु च मुख्यमङ्गलतया जनैः श्लाघ्यन्ते च, तथा केचिन्मनुजाः प्राग्वन्नीचकुले जाता अपि येऽमृतसमेनोचेन श्रीजिनप्रणीतेन शुद्धाचारेण पूतात्मानः, ते इहापि यशसां भाजनं स्युः, परत्र च स्वगोपवगोदिसम्पदां, यथा कालसौकरिकात्मजः सुलसाहरिकेशवलऋषिप्रभृतयश्च दृष्टान्ता ज्ञेयाः। इति द्वितीयो भेदः २। अपि च-यथा सौवर्णाः कलशा मद्येन च पूरितास्ते विशिष्य निन्दास्पदं, उत्तमवस्तुनो गहिततमवस्तुसंयोगो हि अधिकतमनिन्दायै प्रभवतीति प्रतीतमेवेति । तथा केचन मनुजा उच्चैर्गोत्रादिजन्मानोऽपि प्रागुक्तनीचाचाराचरणा विशिष्यह वचनीयतास्पदं स्युः, परत्र च दुर्गतिदुःखभाजनं, यथा परस्यपहारादिपरा रावणादयः। इति तृतीयो भेदः ३ । ___ यथा पुनः सौवर्णाः कलशा अमृतेन परिपूर्णाः परमं सौभाग्यमावहन्ति, तद्वदुच्चकुलजा उच्चाचारसमाचरणचञ्चवश्चेह लोकोत्तरयशःख्यातिपदं स्युः, परत्र लोकोत्तरगतिसुखभाजनं च, यथा श्रीभरतचक्र्यादय इति तुर्यों भेदः ४ । जीवानां नीचोच्चाचारत्वे हेतुमाह-भाविगइवसउत्ति' भाविनी उच्चा उच्चतरावामध्याऽधमाऽधमतरा वा या गतिस्तद्वशतः, भाविगत्यनुसारिण्येव यच्छरीरिणां चेष्टा,तदुक्तम्-ठाणं उच्चुच्चयरं, मज्झं हीणं च हीणतरगं वा । जेण जहिं गंतवं, चिट्ठा वि से(य)। तारिसी होइ ॥१॥
एवं नृजन्मसुकुलादिगुणत्रजस्य, धर्मादृते विफलतामखिलस्य मत्वा ।
भव्याः! प्रमादरिपुचक्रजयश्रियाऽस्मिन् , सम्यक्प्रयत्नपरतामुररीकुरुध्वम् ॥१॥ ॥ इति तपाश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे जयश्यङ्के मध्यमाधिकारे प्रथमेशेऽष्टमस्तरङ्गः॥
0000000000000 ஒரு
॥१६४ ।
Jain Education in
For Private
Personal Use Only
Jaalainelibrary.org