SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000@@@@@ ॥ अथाष्टमस्तरङ्गः॥ जयसिरिवंछिअसुहए, अणिट्टहरणे तिवग्गसारंमि। इहपरलोगहिअत्थं,जिणधम्मे उज्जमह भविआ!॥१॥ जिणधम्ममंतरेणं, जेणं सुकुलुब्भवाइजोगो हि ।सयलो वि हु विहलच्चिय, वुच्चइ जीवस्स जं भणिअं॥२॥ महिअ १ सुवण्ण २ कलसा मज्जामयपूरिआ जहा चउहा। हुंति कुलायारेहि, तह मणुआ भाविगइवसओ | व्याख्या-'मट्टिअसुवण्णत्ति' मार्तिकाः सौवर्णाश्चेति द्विधा कलशाः, ते पुनरुभयेऽपि 'मज्जामयपूरिअत्ति' प्रत्येकं मद्येनामृतेन च पूरिता इति चतुर्भेदाः स्युः। 'जहत्ति' यथा-येन जननिन्द्यत्वजनश्लाध्यत्वादिप्रकारेणेति । 'हुन्ति कुलाया| रेहिं तह मणुअत्ति' तथा-तेन प्रकारेण मनुजाः कुलाचाराभ्यां चतुर्धा भवन्ति, तत्र कुलं द्विधा,उच्च नीचं च, आचारोऽपि द्विधा, उच्चो नीचश्च, तत्रोच्चो जिनप्रणीतः पञ्चविधो ज्ञानादिः, तद्विपरीतः पुनींचः। तत एभिः पदैश्चतुर्भङ्गी सुगमैवेति। ___ अथ दृष्टान्तदाान्तिकयोजना व्यक्तीक्रियते, तथाहि-यथा केचित् कलशा मार्तिकाः स्युरथ च मद्येन-मदिरया | परिपूरिताः, ते किलोभयथाऽपि निन्द्या एव, तथा केचिन्मनुजास्ताहग्दुष्कर्मवशान्नीचे श्वपचादिसम्बन्धिनि कुले जाता, अथ च नीचेनाचारेण जीववधमद्यमांसभक्षणदेवगुरुप्रत्यनीकत्वादिना कलितास्ते चोभयथाऽपि निन्द्या भवन्ति,भवोभयेऽपि निन्द्याश्च, यथा कालसौकरिकः । न च तादृशानां तादृग्नीचाचारमजहतां कश्चिच्छुद्धयुपायोऽस्ति, यथा श्रीवीरवरश्रवणाद्यपि न शुद्धिहेतुः कालसौकरिकस्येति प्रथमो भङ्गः १॥ நGOOOOOOOOOOOOOOOO in Educatan For Private Personal use only M ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy