________________
-
0000000000000000000000000
नागतोपायोऽयं मया व्यधायि । यतः-न हि प्रदीप्ते गृहे कूपखननम् , उपस्थिते सङ्ग्रामे तुरगशिक्षणम् , नदीपूरे प्रसृते पालीवन्धः सुकर इति ततः। सभासमक्षं राज्ञा मतिसौष्ठवं प्रशस्य स मुख्यो मन्त्री चक्रे । ततो नृपादीनपि धर्मे प्रवर्तयस्तैः ।। पूज्यमानः क्रमादन्ते प्रव्रज्य स्वकार्यमसाधयदिति धनश्रेष्ठिकथा । अत्राप्यादिशब्दात् खनिगण्डूकभिल्लुकादिदृष्टान्तदा-1 टन्तिकभावना ज्ञेया ५।
भारंडत्ति, भारण्डपक्षिण उभयजीवनिष्पन्नशरीराः पृथक्चञ्चमुखाः "एकोदराः पृथग्ग्रीवाः" इत्यादिश्लोकोक्तलक्षणा अप्रमत्ता यत्र तत्रापि यत्तदपि रज्ज्वादि पाशं मन्यमाना निर्मनुष्येष्वेव पर्वतद्वीपादिषु विचरन्तः कथञ्चिदपि पाशेषु न 5 पतन्ति, न तु जीवतो मनुष्यादीन् नन्त्याहाराद्यर्थ, स्वचरणलग्नांश्च मनुष्यादीन् समुद्रादिभ्य उत्तारयन्ति, इष्टद्वीपादौ च मुञ्चन्ति, सर्वदा स्वैरविहारादिसुखमनुभवन्तो महाद्वीपेष्विष्टस्वादुफलाद्यभिमताहारादिभोगसुखानि भुञ्जते । तथा केचिज्जीवाः कर्मक्षयोपशमवशाज्जातिस्मृत्यादिना वा बाल्येऽपि सञ्जातदृढसम्यग्दर्शनज्ञानचारित्रा अप्रमत्ततया विहरन्तो मातापितृरूयादीन् पाशानेव मन्यमाना नवब्रह्मचर्यगुप्त्यादिषु विहरन्तः प्रासुकानेवाहारवस्त्रशय्यादीन् गृहन्तोऽनुत्तरदेवाधिकं संयमे साम्यसुखमनुभवन्तः क्रमादव्ययं सुखं चामुवन्ति, स्वाश्रितांश्च भवसमुद्रात्तारयन्ति, श्रीनेमिजिनकुसमपुरश्रेष्ठिसुतादिमोहपाशावद्धश्रीवज्रवामिअतिमुक्तकादिवत् , अत्राप्यादिशब्दात् 'तहेव कुंचासमइक्कमित्ते'त्याधुक्तास्ताहक्क्रौञ्चादिपक्षिविशेषा दृष्टान्तदार्शन्तिकभावनायां ज्ञेयाः ६।
रोहिअझसाईत्ति, रोहितजातिविशेषजा महामत्स्यास्तीक्ष्णदंष्ट्रा महाबलकायाः समुद्रेऽगाधजले बहुमत्स्यपरिवृता विच-!
उ.२८
Jain Education
a
l
For Private & Personal Use Only
Now.jainelibrary.org