SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॐ ॥ १६२ ॥ यतः -चवला मइलणसीला, सिणेहपरिपूरिआ वि तावेइ । दीवयसिहव्व महिला, लद्धप्पसरा भयं देइ ॥ १ ॥ ततो न यावच्छशिविमले मम कुले मलिनता जायते तावदुपायेनैव निवारयामि स्वजनकुटुम्बमिति विमृश्य कारितं निजगृहैकदेशे देवगृहम्, तत्र च यस्यां वेलायां गन्धर्वा नृपदेवकुले गीताभ्यासादि कुर्वन्ति, तस्यां वेलायां श्रेष्ठी देवाग्रे मृदङ्गपटहनिस्वानाद्यातोद्यनादाद्वैतं कारयति, यथा न कोऽपि किमपि शृणोति, ते गन्धर्वा अपि गीतादिव्याघातेनोद्वेजिता नृपाय तत्स्वरूपं व्यज्ञपयन् ततो राज्ञाऽऽकारितः श्रेष्ठी भाणितश्च भोः ! किमेवमनुष्ठीयते ?, श्रेष्ठिनोचे - देव ! असारः संसारः, गत्वरं यौवनं, चपला श्रीः, स्वमसमः प्रियसङ्गमः, दुःसहा पापपरिणतिः, वृद्धीभूता वयं, आसन्नीभूतः परलोकः, ॐ ततः प्राप्तावसरो धर्मः, अतो निजभुजार्जितवित्तेन देवकुलं कारितम्, तत्र देवार्चनावसरे कारयामि नादपूजामनन्तफलामिति श्रुत्वैतद् ईषद्विहस्योक्तं राज्ञा - यद्येवं वैराग्यरङ्गस्तदा वनवास एव युक्तः, यतः पुत्तनियलाई जंमि अ, आसपिसाई विनिच्छिअं छलइ । तत्थ य धण ! गिहवासे, सुविणे वि न जाइ धम्मगुणो ॥ १॥ श्रेष्ठिनोक्तम् - सत्यमेतत्, किन्तु जनो भणति "गृहाश्रमसमो धर्मो न भूतो न भविष्यति” राज्ञोचे- गृहाश्रमगतोऽपि दानादिधर्मो गुरुभिरुपदिष्टो | ज्ञायते ततस्तमाश्रमं माऽवज्ञासीरित्याद्युक्तिप्रत्युक्तिषु राज्ञोचे - हे विज्ञ ! किममुना वाग्विस्तरेण ?, तत्त्वं बूहि । ततः करौ | योजयित्वाऽवादीद्धनः- हे प्रजावत्सलं ! वयमत्र तव छत्रच्छायायां वसामः, निर्मलं चात्मकुलं, निर्वाहित इयान् कालो निष्कलङ्कवृत्त्या, बह्वचश्च मद्गृहे महिलाः, चवलाई इंदिआई, विआरबहुलं च जुवणं देव ! । सच्छंदगई कामो, अविवेओ फुर पाणीणं ॥ १ ॥ ततो नरेन्द्र ! माऽमीषां गीतविनोद हास्यादिचेष्टाविलो कनादिनोच्छृङ्खल वृत्तिर्विनश्यतु परिजन इत्य Jain Education 300600 For Private & Personal Use Only उपदेशर० तरंग७ ॥ १६२ ॥ jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy