SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Jain Education 900000 106603005 चारका अपि तान् मधुरवचनादिभिः प्रसादयन्त्येव नतु कोपयन्ति; तथा केचित् श्राद्धादिजीवा यदि बाल्ये पित्रादिव - शत्वात् स्त्रीकपटादिना वा गृहवासे पतितास्तथापि न ख्यादिकुटुम्वपरवशाः पापकर्मसु प्रवर्तन्ते, न च परिणामविरसत्वाज्जीर्ण तृणतुल्यान् सच्चित्ताद्याहारान् भुञ्जते, किन्तु परिणतिपुष्टिबलकृतोऽचित्तानवाहारान्, स्वाज्ञयैव च कुटुम्बजनान् प्रवर्तयन्ते धर्मकर्मसु न तु तदाज्ञयाऽऽत्मानं महारम्भादिपापकर्मसु । सिंहाश्च घर्धररावैर्भीरुनरान् मृगादिश्च भापयन्ति, तथा तेऽपि धर्मे प्रमाद्यतः कुटुम्बजनान् मिथ्यात्विनश्च त्यागभयदर्शनादिभिजैनागमतर्कादिभिश्च भापयन्ति, कारयन्ति च स्वाज्ञया धर्मम्, यदा चावसरं पश्यन्ति तदा मिथ्यात्वादिभ्यः कुटुम्बविषयादिपाशाद् बन्धनेभ्यो वा निर्गत्य सम्यग्दर्शनब्रह्मत्रत संयमारामरतिसंपन्नं सुखमनुभवन्ति, शुकभट्टारकप्रबोधकसुदर्शनश्रेष्ठिक्षेमङ्कर वासने धन्यशालिभद्रधनश्रेष्ठि| प्रभृतिवत् । तत्र धनश्रेष्ठिज्ञातं यथा - वसन्तपुरे धनः श्रेष्ठी, भार्या श्रीकान्ता, चत्वारः पुत्रा, बहवो भ्रातरः । तज्जायापुत्रपौत्रादिभूरिकुटुम्बसम्पन्नः सम्यग्दृष्टिर्वदुविधविरतिगुणालङ्कृतो न्यायेन व्यवहरन् पापभीरुः सर्वजन श्लाघास्पदमादेशकारिभिः पुत्रपौत्रभ्रात्रादिभिः पर्युपास्यमानः सकलस्वजनपरिजनवर्गस्य मेढिभूतो निवसति । धर्मोपदेशादिभिः सकलं कुटुम्बं धर्मे प्रवर्तयति, तत्र प्रमाद्यतो यथोचितस्मारणादिभिः शिक्षयति, ततः श्रेष्ठिभयेन कोऽपि न प्रमाद्यति धर्मे, किं बहुना ? यावत्कोऽपि नोचैर्जल्पति, अन्यदा नृपेण श्रेष्ठिगृहासन्नं देवकुलं कारितं, तत्र सन्ध्याद्वये राजनियुक्ता गन्धर्वा नटीपेटकादियुक्ता गीतनृत्तादि विदधते, तच्छ्रवणरसावर्जितहृदयः श्रेष्ठिनो महिलादिवर्गो मुक्तगृहव्यापारः ऊर्ध्वं स्थितः शृणोति, पूर्व सलज्जतया शङ्कमानः क्रमात् स्वल्पितलज्जश्चाभूत्, तत्तथा वीक्ष्य धनश्रेष्ठी व्यचिन्तयत्-न शोभनमिदं For Private & Personal Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy