SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ | उपदेशर तरंग ॥१६॥ मुनिसुन्दरका स्थूलभद्र बरवेष्ठिसङ्कलश्रेष्ठयादिसुन्दरीनन्दमेतार्यकपिलऋषिसमुद्रपालादिऋषिवत् । झसाईत्युक्तादादिशब्दान्महामर्कटनसू० वि०कत्त्यादिकारिवृषभादयोऽपि दृष्टान्तीकार्याः। तदनुरूपा दार्शन्तिका अपि योज्या इति। अथवा करिणो यथा महामात्रादि वशीभूता अपि तापतृषाद्याक्रान्ता अशुचितुच्छजलाश्रयादिपरित्यागेन महातडागादिषु स्वैरं यथेष्टं जलं पिबन्ति स्नान्ति खेलन्ति शुचीभवन्ति च, परं रजसा स्वं खरण्टयन्ति पुनः स्नानादिना शुचीभवन्ति च; एवं केचित् कुटुम्बादिपरतन्त्रा अपि कलुषतुच्छमिथ्याधर्मानुष्ठानपरित्यागेन श्रीजिनधर्ममहासरसि रतिं दधानाः श्रीगुरूक्तसिद्धान्तामृतानि पिबन्ति आवश्यकादिसदनुष्ठानादिभिश्चात्मानं शुचयन्ति, पुनः कुटुम्बनिर्वाहाद्यर्थसावधव्यापारारम्भादिभिःस्वं किञ्चिन्मलिनयन्ति, पुनः प्राग्वत् शुचयन्ति । ते च जघन्यतः सौधर्मे उत्कर्षतोऽच्युते द्वादशे कल्पे उत्पन्नाश्चिरं सुखानि भुञ्जते, कियद्भवैर्मुसाक्तिसुखान्यपीति । अथवा यथा गजाः स्नात्वा रजसा स्वं खरण्टयन्ति तथा च तेषां स्नातमप्यस्नातमेव स्यात् , एवं केचित् किश्चित्तपोदानध्यानाध्ययनादि कृत्वा परकृतश्लाघाप्रशंसादीच्छानिदानाविधिमिथ्यात्वादिभिः स्वपुण्यानि मलिनयन्ति । यतः-शैथिल्यमात्सर्यकदाग्रहक्रुधोऽनुतापदम्भाविधिगौरवाणि च । प्रमादमानौ कुगुरुः कुसङ्गतिः, श्लाघार्थिता वा सुकृते मला इमे ॥१॥ (अध्यात्मकल्पद्रुमे)४ । हरित्ति हरयः सिंहास्ते पाशे मरणान्तेऽपि न पतन्ति यदि पतन्ति तदा बाल्यावस्थायां कूटयन्त्रप्रपश्चादिना वा। पतिता अपि च लोहशृङ्खलानिबद्धा यदि विच्छटन्ति तदा वनादौ प्रयान्त्येवाविच्छटिता अपि न गजादिवत् कैरपि पर्याणयितं शक्या, नाण्यवज्ञातुं शक्याः, न च ते जीर्णानि तृणान्यदन्ति, किन्तु स्वयमेवाहारं बलपुष्टिकरं महामांसमेव । तत्परि ॐ0000000 POOாதGG ॥१६१ ॥ 000000 Join Education in For Private Personal Use Only en
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy