________________
000000000000000000000
तुमसमर्थास्तत्रैव टूत्कटाकृत्य दुःखेन नियन्ते । सरघा अपि स्वलालारूपे मधुनि विलग्ना भिल्लैरग्निज्वालनादिना दुःखाद् नियन्ते, तथा केचिज्जीवाः पैशून्यादिभिः परानुद्वेजयन्ति, धर्मवीर्यविकला धर्मेषु शुभकर्मसु नोत्सहन्ते । यदि कदाचिकिञ्चित्तेषु यतन्ते तदाऽशुचिप्रायकुगुरुष्वेव विषयेषु च स्वजन्ते, तेषु च विलग्ना बहुपदेशादिभिरप्यात्मानं मिथ्यात्वादिभ्यो मोचयितुमशक्तास्तथैव मृत्वा दुर्गतिदुःखभाजनं भवन्ति, मिथ्यात्वाविरतयज्ञकारिकालिकाचार्याप्रतिबुद्धदत्तनृपविषयाविरतसत्यकिविद्याधरवत् । आदिशब्दाद्गर्तासूकरादयोऽत्र दृष्टान्ता ज्ञेयाः ३॥
करित्ति-करिणो महावीर्या अपि करिणीस्पर्शलौल्या वारिपतिताश्चिरं खेटनवाहनबन्धादिक्लेशान् सहन्ते, मिष्टाहारादिभिर्महामात्रादिवशीभूताश्च मुत्कला अपि अदर्यमानवीर्या वनादौ स्वेच्छाक्रीडासुखभोगाद्यर्थं गन्तुं नोद्यतन्ते, भूमौ ॥ पतितं स्वस्य दुःखाकृदयङ्कुशाद्यर्पयन्ति, तथा केचिज्जीवाः शुभवीर्ययोगाद् बाल्ये धर्मकर्मसूद्यतमाना अपि पित्रादिभिर्बलात्कारितपाणिग्रहणा मातृपितृकलत्रापत्यादिवशीभूता इन्द्रियार्थसुखमात्रगृघ्नवो यथाकुटुम्बाद्यभिप्रायमेव चेष्टमाना धर्मवीर्यमदमप्रकटयन्तो दर्शनदेशसर्वविरत्यादिप्रतिपत्तिपालनादिधर्मकर्मसु नोद्यतन्ते, नोपक्रमन्ते पुत्रतन्तुबद्धार्द्रकुमारादिवन्मोहबद्धा गृहवासे एव तिष्ठन्ति । कुटुम्बस्वजनादिरञ्जनाद्यर्थं मिथ्यात्वारम्भादिषु च प्रवर्तन्ते, विषयादिगृद्राश्च शशिकण्डरीकादिवद् दुर्गतावपि पतन्ति । करिणश्च मदावस्थादौ पूर्वानुभूतवनकेल्यादिस्मृत्यादिना वा बन्धनेभ्यो विच्छुट्याबलबन्धनादि त्रोटयित्वा वा वनमनुधावन्ति, तथा केचित् सातिशयगुरुप्रतिबोधादिना कैश्चित् सुखदुःखादिविशेषनिमित्तैः समुत्पन्नवैराग्याज्जातिस्मृत्यादिना वोल्लसितसंयमविषयवीर्या सर्वदेशविरतिदर्शनादि प्रतिपद्यन्ते, प्रत्येकबुद्धमहानिर्ग्रन्थ
00000000000000
यादी पूर्वानुभूतवनकबोधादिना कैश्चित्
प्रत्येकबुद्धमहा।
Jain Education inted
For Private Personal Use Only
hinelibrary.org