________________
-
मुनिसुन्दर सुरः समाचष्ट, तिष्ठत्वसौ ममाश्रमः, सर्वर्तुकवनाद्भुतमेकस्तम्भं रलमयं सौधं विधास्ये, एवमस्त्वित्युक्त्वा यावत् | उपदेशर० सू० वि०सचिववरः पुरमलमकार्षीत्तावदैक्षिष्ट भवनमेकस्तम्भं विमानश्रीविडम्बि निष्पन्नं सर्वर्तुवनोपेतम्. तथाविधसौधं निध्या-10 तरंग २
याऽधिकं धन्यमन्यस्तद्वनं रक्षितुमभ्रंलिहं वप्रमकारयत् रक्षकांश्च न्ययुङ्ग तथा, यथा पक्षिणोऽपि तत्र प्रवेशनालभन्तेति. अन्यदा तत्रैव पुरे श्वपचप्रेयसी गुर्विणी स्वभर्तुश्चतफलास्वाददोहदमवादीत् , अकालश्चाम्राणां स, सर्वतुकवने च तानि सन्ति, परं न केनाप्युपायेनाप्यन्ते. इति ध्यात्वा श्वपाकः सुधीर्वप्राद् बहिःस्थित एवाऽवनामिन्या विद्यया शाखामाकृष्य चूतान्युपाददे निशि उन्नामिन्या विद्यया तां यथास्थानं न्यस्थापयंश्च पूरयामास दोहदं पत्न्याः, अथारक्षाः प्रातः
शाखां फलरहितां प्रेक्ष्य साशङ्कमनसः कथयामासुमहीपतेः देव, गतागताद्यभिज्ञानं नेक्ष्यते कस्याऽपि फलानि तु केनाकाप्यात्तानि शाखायाः, य एवं गृह्णीयात् कथं तस्माद्रक्षणीयं वनम्. इति तच्छ्रुत्वा मन्त्रीन्दुमादिशन्मेदिनीपतिः. पञ्चषड्दिनान्तश्चौरं स्वशिरो वाऽर्पयेरिति. तस्करस्तु मन्त्रीन्दोर्न क्वाप्यभूत्करगोचरः ! अन्यदा क्वचिद्देवायतने पूर्वरङ्गाङ्गणसंगतान् जनान् मुख्यनट्यामप्राप्तायामभयः प्रोचे वसन्तपुरे जीर्णश्रेष्ठी निःस्वः, तदंगजा विवाहसामग्र्ययोगात् बृहत्यभूत्. जनेऽपि बृहत्कुमारीति नाम प्रासिध्यत्. सा वरार्थं कामदेवमपूजयत्. अन्यदा निशिपुष्पार्थ मलये प्रविष्टा मालिकेनोक्ता च चौरि किं ते कुर्वे साऽवोचत् कुमार्यस्मि, मां कोप्युद्वहति न तेन पुष्पाण्यादाय काममर्चामि. मालिकोऽवददद ढासति चेत् प्रथमं ममान्तिकमेष्यसि तदा त्वां मुञ्चे यथेष्टं च पुष्पाणि गृहाणेति. तदभ्युपगम्य गृहं गता परिणीता च मृतभार्येण केनापि धनिना, वासगृहावसरे च प्रतिज्ञातं पत्युः प्रोचे, तेन प्रहिता च निशि मलये यान्ती दृष्टा सालङ्कारा
00000000000000000000
0000000000
For Private Personel Use Only